________________
क्षपक
उपना
आवश्यकनियुक्ति दीपिका ॥
॥४३॥
देवगतिः देवानुपूर्वी वैक्रियं अंगोपाङ्गानि चेति द्विकं, संहननानि प्रथमवर्जानि ५, यत् स्वस्यास्ति तदन्यतरत् मुक्त्वा | अन्यसंस्थानानि ५, यद्यतीर्थकृत तदा तीर्थकराहारकनाम्नी, तीर्थकृत्तदाऽऽहारकनामैव, परमेतासां नामप्रकृतीनामत्र क्षयो | भाष्यकर्मग्रन्थानां न सम्मतः ॥ १२५ ॥ 'चर'
चरमे नाणावरणं, पंचविहं दसणं चउवियप्पं । पंचविहमंतराय, खवइत्ता केवली होइ ॥ १२६ ॥ ___ चरमेति द्वितीये समये मत्यादिज्ञानावरणं पश्चविधं, चक्षुरचक्षुरवधिकेवलभेदं शेषं चतुःप्रकारं दर्शनं, दानलाभवीर्यभोगोपभोगभेदात् पञ्चविधमन्तरायं क्षपयित्वा केवली भवति, श्रेणिद्वयसमाप्तिकालोऽप्यन्तर्मुहर्त्तमा एव घटीद्वयान्तरन्तर्मुहुर्तानामसंख्यत्वात् ।। १२६ ॥ 'संभि' संभिण्णं पासंतो, लोगमलोगं च सव्वओ सव्वं तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ॥१२७॥
समेकीभावेन द्रव्यपर्यायैर्भिन्नं व्याप्तं लोकमलोकं च सर्वतः पश्यन् , भव्यं वर्तमानं ॥ १२७ ॥
अत्रोपोद्घातनियुक्त्यारम्भे नियुक्तिसमुत्थानाधिकारे 'तवनियमनाणरुकं' इत्यादि सर्व प्रसंगेनोक्त्वाऽथ वाच्यप्रसङ्गशेष शेषवाच्यद्वाराणि चाह-'जिण'
जिणपवयणउप्पत्ती, पवयणएगट्ठिया विभागो य । दारविही य नयविही, वक्खाणविही य अणुओगो ॥ १२८ ॥
Gl॥४३॥
Jain Education Internal
For Private & Personal Use Only
Tallww.jainelibrary.org