SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ क्षपकश्रेणिः ॥ नरकगति १ नरकानुपूर्वी २ तिर्यग्गति ३ तिर्यगानुपूर्वी ४ जातिनाम एकेन्द्रियजातिनाम यावच्चतुरिन्द्रियजातिनाम ८ आतप ९ उद्योत १० स्थावर ११ सूक्ष्म १२ साधारणा १३ ऽपर्याप्तनामानि १४ निद्रानिद्रा १५ प्रचलाप्रचला १६ स्त्यानर्द्धि १७ अमृः प्रकृतीः क्षपयित्वाऽष्टानां शेषं क्षपयेत्। तत्र चूर्णौ प्रकृतयः षोडश सन्ति, आतपोद्योतयोः स्थाने चाऽशुभविहायोगतिरस्ति, भाष्ये तु षोडशसंख्योक्ताऽपर्याप्तनाम च नास्ति, ततस्तत्वज्ञा विदन्ति, ततो नपुंसकाद्युपशमश्रेणिवज्ञेयं, तत्र नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादि षटुं, ततः पुंवेदं क्षपयंस्तं त्रिधा कृत्वांशद्वयं युगपत्क्षपयित्वा तृतीयांशं संज्वलनक्रोधे क्षिप्त्वा तं त्रिधा कृत्वांशी क्षपयित्वा तृतीयांशं संज्वलनमाने क्षिप्वा तं त्रिधा कृत्वांशी क्षपयित्वा तृतीयांशं संज्वलनमायायां क्षिप्त्वेत्यादि संज्वलनलोभं खंडवयं कृत्वा द्वावंशी क्षपयित्वा तृतीयांशं संख्येयखण्डानि कृत्वा पृथक पृथक् काले क्षपयन्नन्त्यं खण्डं यावदनिवर्सिवादरस्ततोऽन्त्यं खण्डमसंख्यखण्डानि कृत्वा समये समये क्षपयन् सूक्ष्मसम्परायचारित्री स्यात् ततः सूक्ष्मखण्डेषु क्षीणेषु क्षोणमोहयथाख्याती ॥ १२२ ॥ 'वीस' वीसमिऊण नियंठो, दोहि उ समएहि केवले सेसे। पढमे निदं पयलं, नामस्स इमाओ पयडीओ॥१२४॥ __ निर्ग्रन्थोऽब्धितरणश्रान्तवत् महामोहं तीर्खाऽन्तर्मुहूत्तं विश्रम्य द्वाभ्यां समयाभ्यां केवली भविष्यन् शेषे प्रथमे समये निद्रां प्रचलां च तथा नामकर्मणः एताः प्रकृतीः क्षपयेत् तद्यथा ॥ १२४ ॥ 'देव' देवगइआणुपुत्वी-विउव्वि संघयण पढमवज्जाइ । अन्नयरं संठाणं, तित्थयराहारनामं च ॥१२५॥ Jain Education Intel For Private & Personal use only alwww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy