________________
आवश्यकनियुक्तिदीपिका॥
उपशमक्षपक श्रेण्यौ ॥
॥४२॥
आरब्धा मयोऽष्टवर्षेभ्योऽन्वविरतो देशविरतः, प्रमत्तोऽप्रमत्तो वा आद्यसंहननी धर्मध्यानी, पूर्वधरस्त्वप्रमत्तः शुक्लध्यान्यपि, आदौ अनन्तानुबन्धिनोऽन्तर्मुहन क्षपयित्वा ततः तदनन्तांशं मिथ्यात्वे क्षिप्वा तेन समं मिथ्यात्वं क्षपयेत् यथा तीवाऽग्निरर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहेत्तथाऽसौ क्षपकोऽप्यवशेष अग्रेतने अग्रेतने शिवा तेन समं क्षपयेदिति सर्वत्र ज्ञेयं । ततो मिश्र, ततः सम्यक्त्वमोहनीयं, तदा चाऽस्य सम्यक्त्वाणूनामपि क्षये विशुद्धतरतत्त्वश्रद्धानपरिणामरूपं क्षायिकसम्यक्त्वं स्यात् , श्लक्ष्णाभ्रापगमे स्पष्टतराऽऽलोकवत् ; इह चेद् बद्धायुः क्षपकः प्रपद्येतानंतानुबन्धिक्षये च तिष्ठेत , ततः कोऽपि मिथ्यात्वोदयाचान्पुनश्चिनुयान्मिथ्यात्वे तद्वीजभावात, क्षीणमिथ्यात्वस्तु कषायान्नैव चिनोति । अनन्तानुबन्धिक्षये सप्तकक्षये वाऽपतितपरिणामो मृतः सुर एव स्यात् , पतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग , तत्रापि देवेषु वैमानिकेषु नृतिर्यक्षु चाऽसंख्यवर्षायुष्केषु यातीति चूणौँ । इह क्षायिकसम्यक्वी चेत् स्वर्नरके वा यायात् ततो नृत्वं प्राप्य सिद्ध्येत् , चेत्तिर्यनृषु याति, तदा स्वर्गवा नृत्वमाप्य सिध्येदिति । सम्यक्त्वक्षयेऽनिवर्तिबादर उच्यते, बद्धायुस्तुसप्तके क्षीणे तिष्ठत्येव, सम्यक्त्वशेषं चाग्रेन क्षिपेत् , अबद्धायुस्तु सर्वां श्रेणी समापयत्येव स च सम्यक्त्वान्त्यांशं अप्रत्याख्यानप्रत्याख्यानरूपकषायाष्टकान्तः क्षिप्वा तेन सम युगपदष्ट कक्षयमारभते, तन्मध्यांशं च क्षिपयन् ॥ १२१ ॥ 'गइ' 'साहा' गइआणुपुव्वी दो दो, जाइ नामं च जाव चउरिंदी। आयावं उज्जायं, थावरनामं च सुहुमं च ॥१२२॥ साहारणमपज्जतं, निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे, अवसेसं जं च अटण्हं ॥१२३॥ |
॥४२॥
Jain Education Inter
For Private & Personal use only
Twww.jainelibrary.org