________________
योगैः शुभमनोवाक्वायव्यापारैदिशविधे कपाये क्षपिते विध्याताऽग्निवत् , उपशमिते भस्मच्छन्नाऽग्निवत् , क्षायोपशमिते 11 वार्धविध्याताऽग्निवत् चारित्रलाभो लभ्यते तस्य चारित्रस्य विशेषा भेदा इमे वक्ष्यमाणाः ॥ ११३ ॥ ' सामा' सामाइयं च पढमं, छेओवट्ठावणं अवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ११४ ॥
समानां ज्ञानदर्शनचारित्राणां आयः समायः स एव सामायिकं सर्वसावधनियमरूपं, तद् द्विधा इत्वरं यावत्कथिकं च, तत्र इत्वरं छेदोपस्थापनाऽपेक्षयाऽल्पकालं भरतैरवतेष्वाद्यान्न्याहत्तीर्थेऽनारोपितव्रतस्य शिष्यस्य, यावत्कथिकं तु यावत्कथाऽऽत्मनो यावजीवमिति, मध्यमजिनविदेहाहन्मुनीनां उपस्थापनाऽभावात् सामायिककाल एव व्रतारोपाच्च । १।चा पादपू], प्रा०पर्यायच्छेदेन महाव्रतानां उपस्थापनं यत्र तच्छेदोपस्थापनं द्वितीयं चारित्रं भवेत् , तद् द्विधा अनतिचारं सातिचारं च, तत्राऽनतिचारं इत्वरसामायिकयुकशिष्यस्योपस्थापने तीर्थांतरसंक्रान्तौ वा, यथा पश्चाद्वीरतीर्थं संक्रामतः पञ्चयामप्रपत्तौ । १। सातिचारं तु मूलगुणच्छेत्तुः पुनः व्रतारोपः। २ । परिहारेण तपो विशेषेण विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं द्विधा परिहारकाणां निर्विशमानकं, सेवितपरिहाराणां तु निर्विष्टकायिकं । परिहारविशुद्धिसामायिकं नवकोगणः प्रपद्यते, तत्र चत्वारः परिहारकाः चत्वारस्तद्वैयावृत्यकृतोऽनुपरिहारकाः एकस्तु कल्पस्थितो वाचनाचार्यों गुरूभृतः, तत्र 'गिम्हे चउत्थछठट्ठमाई सिसिरे उ छठमट्ठमयं । दसमं वासासुटुमदसमदुवालसतवो होइ । १ । एसो जहन्नमज्झुक्कोसो परिहारियाण परिहारो। पारणगे आयाम अंतिमभिरकापणगगहणं ॥२॥ उववासं वा आयाम सेसाण तवो य जाव छम्मासा । तो परिहारियणुचरा अणुचरया हुंति परिहारी ॥ ३ ॥ कप्पठिओ वि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिंगभावं वयंति कप्पद्वियत्त
For Private & Personal Use Only
www.jainelibrary.org
Jan Education