SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तिदीपिका ॥ श्रुतादि| सामायिकाप्तिः ॥ ॥३९॥ न विद्यते प्रत्याख्यानं देशविरतिर्येषां तेऽप्रत्यख्याननामधेयाः सम्यग्दर्शनलाभ लभन्ते, न तु विरताविरतिं देशविरति ॥ १०९ ॥' तइ' तइयकसायाणुदए, पञ्चक्खाणावरणनामधिज्जाणं। देसिकदेसविरई, चरित्तलंभं न उ लहति ॥११०॥ प्रत्याख्यानं सर्वविरतिरूपं आवृण्वन्तीति प्रत्याख्यानावरणास्तन्नामधेय नाम येषां ते, देशो महाव्रतापेक्षया स्थूलप्राणातिपातविरतिः एकदेशस्तु महाव्रतस्यैव यथादृश्यवनस्पतिकायाद्यतिपातस्तयोविरतिं लभन्ते न तु चारित्रलाभं ॥११०॥'मूल' मूलगुणाणं लंभ, न लहइ मूलगुणघाइणं उदए।उदए संजलणाणं, न लहइ चरणं अहक्खायं ॥१११॥ सम्यक्त्वाणुव्रतमहाव्रतानि मूलगुणाः (तेषां) घातिनां संयोजनादीनां उदये मूलगुणानां लाभमुक्तरीत्या न लभन्ते, सं ईषत् ज्वलन्तीति संज्वलनाः यथाख्यातं निष्कषायं चारित्रं ॥ १११ ॥ ' सव्वे' । सव्वेवि अअइयारा, संजलणाणं तु उदयओ हुंति। मूलच्छिज्जं पुण होइ, बारसण्हं कसायाणं ॥११२॥ ____सर्वेप्यालोचनादिच्छेदान्तप्रायश्चित्तशोध्याः अतिचाराः, तुरेवार्थः संज्वलनानामेवोदये स्युः । इह क्रोधमानमायालोभाश्चत्वारः कषाया एकैकः, संज्वलनप्रत्याख्यानाऽप्रत्याख्यानानंतानुबन्धिभेदक्रमात् पक्षचतुर्मासवर्षजन्मावधिः स्यात् , तेन षोडश कषायाः स्युः, तेषु प्रत्याख्यानक्रोधादीनां द्वादशानां उदये मूलच्छेद्य चारित्रदेशविरत्याधुच्छेदः स्यात् ।। ११२॥ 'बार' बारसविहे कसाए, खइए उवसामिए व जागर्हि । लब्भइ चरित्तलंभो, तस्स विसेसा इमे पंच॥११३॥ Al३९॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy