________________
मिथ्यात्वोदयादसौ मिथ्यात्वी स्याद्, ततः पुनरपूर्वानिवृतिकरणाभ्यां क्षायोपशमिकसम्यक्त्वं लभते, सैद्धान्तिकानां मतमिदं, कार्मग्रन्थिकानां तु अन्तरकरणे औपशमिकसम्यक्त्वं लब्ध्वा तेन मिथ्यात्वस्य पुंजत्रयं करोत्येव, ततश्युतोऽसौ तत्तत्पुंजोदयात् क्षायोपशमसम्यक्त्वी मिश्रो मिथ्यात्वी वा स्यात, अभव्योऽपि कश्चिद्यथाप्रवृत्तादन्थि लब्ध्वा तत्र स्थितोऽर्हदादिश्रीदर्शनाद्धेत्वंतराद्वा एकादशाङ्गरूपं श्रुतसामायिकं लभते, न शेषाणि । तथा, 'जलवस्थाणी' ति जलवस्त्रे मलिनाघशुद्धशुद्धभेदेन त्रिधा तथा दर्शनमपि मिथ्यामिश्रसम्यगभेदं । ८-९ । सम्यक्त्वलाभादनु शेषसप्तकर्मणां पल्यपृथक्त्वस्थितिक्षये देशविरतिस्ततः पृथक् पृथक् संख्येयसागरस्थितिक्षये सर्वविरत्युपशमक्षपकश्रेण्याप्तिः स्यात, इयं चेयत्कालतो देशविरत्याद्याप्तिः उत्कृष्टतो पतितसम्यक्त्वस्य देवनरेख़त्पद्यमानस्य स्यादऽन्यथाऽन्यतरश्रेणिवर्जसम्यक्त्वाद्याप्तिरेकमवेऽपि स्यात् कर्मग्रन्थाऽऽशयेन तु श्रेणिद्वयमपि ॥ १०७ ॥ 'पढ' पढमिल्लुयाण उदए, नियमा संजोयणा कसायाणं।सम्मइंसणर्लभं, भवसिद्धीयाविन लहति ॥१८॥ __प्रथमिल्लुकानां देश्युक्त्या प्रथमानां, प्राथम्यादि चैषां सम्यक्त्वमुख्यप्रथमादिगुणघातित्वात् क्षपणक्रमाद्वा, ‘उदये' उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्य संयोजयन्ति भवेनात्मनामिति संयोजनाख्याः क्रोधमानमायालोमाः कषाया अनन्तानुबन्धिनस्तेषां, भवे तस्मिन् सिद्धिर्येषां ते भवसिद्धिका अपि नियमात् सम्यग्दर्शनलाभं न लभन्ते । १०८ । 'बिइ' बिइयकसायाणुदए, अपञ्चक्खाणनामधेजाणं । सम्मइंसणलंभं, विरयाविरइं नउ लहति ॥ १०९॥
Jain Education Inter
For Private & Personal use only
|www.jainelibrary.org