SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रुतादि कातिर । सामायिकाप्तिः॥ दीपिका ॥ ॥३८॥ | योजनं गतः पुरं प्राप्तः, एवं भवाटव्याः सम्यक्त्वपुरं यातां पन्थाः सप्ततिकोटीकोटिमाना दीर्घकर्मस्थितिः, तत एकोनसप्ततिकोटीकोव्यामतिक्रान्तायां भीस्थानं ग्रन्थिश्वोरौ रागद्वेषौ, स तत्र वलितो यो दुष्टाशयेन पुनदीर्घकर्मस्थितिकृत् , चौरधृतस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्वः, तृतीयो ग्रन्थिभेत्ता ।४। पथभ्रष्टः कोऽपि स्वयमेव मार्ग लभते, कोऽप्युपदेशेन कोऽपि नैव तथा जीवः सम्यक्त्वमपि । ५। ज्वरगृहीतस्य कस्यापि ज्वरः स्वयं याति, कस्याप्यौषधैः, कस्यापि नैव, एवं मिथ्यात्वज्वरोऽपि । ६ । कोद्रवाणां केषांचिन् मदनभावः स्वयमेव कालान्तरेण याति, केषांचिद् गोमयादिभिः, केषांचिन्नैव तथात्मनां मिथ्यात्वं, अयं भावः कोऽप्यनादिमिथ्यात्वी गुरूपदेशेन स्वयं वा लब्धेनाऽपूर्वकरणेन शुद्धाशुद्धाशुद्धमदनकोद्रवानिव मिथ्यात्वपुद्गलान् सम्यक्त्वमिश्रमिथ्यात्वभेदेन त्रिपुंजीकृत्याऽनिवर्तिकरणेन शुद्धपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते, पुञ्जत्रयस्थापना . कोऽपि पुनरपूर्वकरणेन ग्रन्थि भित्वा विशिष्टतरविशुद्ध्यात्मकमनिवर्तिकरणमनुभवन् मिथ्यात्वस्थितेरुदयक्षणादारभ्यान्तर्मुह दुपरि तत् प्रदेशवेद्यमिथ्यात्वदलिकवेदनाऽभावरूपमन्तरकरणं करोत्यऽस्मिंश्च कृते मिथ्यात्वमोहनीयस्य स्थितिद्वयं स्यात, आद्यान्तरकरणादधस्तनी अन्तर्मुहूर्तमात्रा स्थितिः, अन्या तस्मादेवोपरितना अन्तर्मुहत्तोंनाऽन्तःसागरकोटीकोटिमाना, स्थापना-.-तत्राद्यस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यात्व्येव, अन्तर्मुहूर्तेन पुनस्तस्यामधस्तनस्थितौ क्षपितायामन्तरकरणाद्यसमये मिथ्यात्वदलिकवेदनाऽभावादौपशमिकं सम्यक्त्वमाप्नोति, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्त्वाच्यवन् , जघन्यं समयेनोत्कृष्टं षडावलिषु शेषास्वनन्तानुबन्ध्युदयः स्यात् , तदा च सास्वादनसम्यक्त्वं लभते, ततो जघन्यतः समयात् उत्कृष्टतः षडावलिकाभ्यः पुनरूज़मवश्यं ॥३८॥ Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy