SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ यदा च सप्तानां कोटाकोटी पल्यासंख्यभागहीना स्यात् तदा धनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत कर्मग्रन्थिरुदेति तस्मिंश्च भिन्ने एव सम्यक्त्वादिलाभः स्यात् । इह भव्यानां करणत्रयं स्यात् , करणं च परिणामविशेषः, तत्र आद्यं करणं अनादिकालाद्यथैव प्रवृत्तं यथाप्रवृत्तं करणं ग्रन्थि यावत् । १। ततो द्वितीयमप्राप्तपूर्व अपूर्वकरणं ग्रन्थिमतिकामतां।२। ततस्ततीयं न निवर्त्तनशीलं अनिवृत्तिकरणं सम्यक्त्वाप्तिं यावत् । ३ । अभव्यानां त्वाद्यमेव ॥ १०६॥ 'पल्ल' पल्लय १ गिरिसरिउवला २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६। कुद्दव ७ जल ८ वत्थाणि ९ य सामाइयलाभदिट्ठन्ता ॥ १०७ ॥ एते सम्यक्त्वसामायिकलामे दृष्टान्ताः, तत्र पल्यो धान्यस्थानं स यथाऽल्पानक्षेपे बहनशोधने च काले क्षीयते, तथात्मा कर्मपल्येऽल्पकर्माणूनां क्षेपे बहूनां च शोधनेऽनाभोगाद्यथाप्रवृत्तकरणेनाऽल्पकर्मीभवन् ग्रन्थिमाप्यापूर्वकरणेन तामुल्लंघ्यानिवृत्तिकरणेन सम्यक्त्वमामोति । १। गिरिसरिदुपलोऽन्योन्यघर्षेण वृत्तत्वमेत्येवमाद्यकरणेनात्मा ग्रन्थि । २। पिपीलिकाः कीटिकाः तासां यथा क्षितौ गतिः । १ । स्थाण्वारोहः।२। सपक्षाणां ततोऽप्युत्पातः ।३। कासांचित् स्थाणुतले स्थानं । ४ । कासांचित्ततोऽवसर्पणं च । ५। तथात्मनां क्रमाद्यथाप्रवृत्ता । १ । ऽपूर्वा । २ । ऽनिवर्तिकरण । ३ । ग्रन्थिदेशस्थिति । ४ । पुनः कर्मस्थितिवर्धनानि । ५ । अथ पुरुषाः-अटव्यां त्रिषु नृषु पुरं प्रति व्रजत्सु सप्ततियोजनमाने पथि एकोनसप्ततियोजनैरतिक्रान्तीस्थाने रौद्रौ स्तेनी वीक्ष्यैको वलितो, द्वितीयस्ताभ्यां धृतः, तृतीयस्तौ विलंध्य सप्ततितम | Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy