________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ३३ ॥
Jain Education Inter
सामायिक आद्यं, पश्चानुपूर्व्वा षष्ठं, अनानुपूर्व्यां पडध्ययननिष्पन्नाष्टादशाधिकसप्तशतभङ्गरूपायां अनियतं, तत्र सामायिकप्रतिक्रमण कायोत्सर्गचतुर्विंशतिस्तववन्दन प्रत्याख्यानरूपस्य क्रमस्य १, २, ३, ४, ५, ६, अङ्कस्य पूर्वानुपूर्व्या गणने समयप्रसिद्धः ' सामाइयं चवीसत्थउ वंदणयं ' इत्यादिक्रमः । अनानुपूर्व्यां १, ४, ५, २, ३, ६, अङ्करूपः, एकषष्टो भङ्गो ज्ञेयः, यतो विंशत्युत्तरं शतं यावत् पद्कोऽन्ते विशति, ततः क्रमेण पञ्चकाद्याः, तथा षट्कस्य पश्चाच्चतुर्विंशतिं यावत् पंचको विशति, तथा पञ्चकस्य पश्चात् षड् यावच्चतुष्कस्ततः त्रिकादयो विशन्ति, एवं २४ स्युः, ततः पंचकः पश्चात् क्रियते, चतुष्कं चतुर्विंशतिं यावत् स्थाप्यते, तथा तृतीयांकात् पश्चाद्वृद्धानुक्रमेण पंक्तिद्वये तृतीयांकः सदृशोऽधोधः स्थाप्यः, ततः पाश्चात्यौ द्वौ अंको एकस्य पंक्तौ क्रमेण द्वितीयस्यामुत्क्रमेण स्थाप्यौ, एवं भङ्गा जायन्ते, यथा १२३४५६ । २१३४५६ | १३२४५६ | ३१२४५६ । २३१४५६ । ३२१४५६ । एष एकः प्राभृतोऽभूदेवमग्रे १२४३५६ । २१४३५६ । १४२३५६ | ४१२३५६ । इत्यादिशेषा आनुपूर्व्याऽनुयोगद्वाराद् ज्ञेयाः । नाम एकनामादि दशनामान्तं । यथाऽनुयोगद्वारेपूक्तं । तत्र परभावान्तःक्षायोपशमिके भावे सामायिकस्यावतारः, षण्णामत्वं त्वौदयिकादीनां भावानां पदत्वात् २ | प्रमाणं चतुर्धा द्रव्यप्रमाणं प्रस्थादि, क्षेत्रप्रमाणं अङ्गुलादि, कालप्रमाणं समयादि, भावप्रमाणं त्रिधा गुणनयसंख्या भेदात् । गुणप्रमाणं द्विधा जीवगुणप्रमाणं अजीवगुणप्रमाणं च । तत्र सामायिकस्य जीवगुणत्वात् जीवगुणप्रमाणेऽवतारः । तत्राऽपि ज्ञानदर्शनचारित्रेषु ज्ञानेऽवतारः बोधात्मकत्वात् तच्च ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं, तत्राऽगमेऽवतारः, तत्राऽपि लोकोत्तरे न तु लौकिके, तत्राऽपि सूत्रार्थोभयरूपे त्रिविधेऽपि । नयप्रमाणे त्वधुना मूढनयत्वान्नावतारः । संख्या च नामस्थापनाद्रव्य क्षेत्रकालभावौप
For Private & Personal Use Only
उपोद्
घातः ॥
॥ ३३ ॥
www.jainelibrary.org