SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter स्वयं नाम ' ॥ १ ॥ अहो निशश्वान्ते । तथा नोआगमतो द्रव्यश्रुतं ज्ञभव्यदेहाऽतिरिक्तं पुस्तकपत्रस्थं, यद्वा सूत्रमंडजं बोंडजं कीटजं वालजं वल्कजं । भावश्रुतं आगमतो ज्ञाता उपयुक्तः । नोआगमतो लौकिकं भारतादि, लोकोत्तरं द्वादशांगावश्यकादि, एकदेशवाचिनोशब्दः श्रुतज्ञानैकदेशत्वात् । स्कन्धः समुदायः सोऽपि द्रव्यभावाभ्यां श्रुतवत्, नोआगमतो ज्ञभव्यदेहातिरिक्तो द्रव्यस्कन्धः, सचित्ताऽचित्तमिश्रस्त्रिधा द्विपद १ द्विप्रदेश २ सेनादिः ३ । भावतो नोआगमतः अयमावश्यकश्रुतस्कन्धः स्कन्धदेशत्वात् देशार्थी नोशब्दः । श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः, आवश्यकश्रुतस्कन्धस्तत्र च षडध्ययनानि तेष्वाद्यं सामायिक, तस्य च महापुरस्येव चत्वारि अनुयोगद्वाराण्युपक्रमादीनि । अत्र नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढोपक्रमः । तत्र द्रव्योपक्रमः सचित्ताऽचित्तमिश्रद्रव्याणां संस्काराद्विनाशाच्च, तत्र मिश्रो भूषितनरादिः - यथा मर्त्यादीनां घृतादिना संस्कारः खड्गादिना च विनाशः, एवं क्षेत्रस्योपक्रमो वृष्टयादिना मलमूत्रादिना च । कालोपक्रमः शङ्कुच्छायादिनाऽपग्रहादिना च भावोपक्रमः, स्तुत्यादिना निन्दादिना च । इह च योग्यान्नपानादिद्रव्याद्युपक्रमैः गुरुषु संस्कारभावोपक्रमं साधयन् कुभक्तादिद्रव्योपक्रमैर्विनाशभावोपक्रमं त्यजन् सूत्रमधीते, यद्वाऽऽनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात् षोढोपक्रमः, तत्र नामस्थापनाद्रव्यक्षेत्र कालगणनोत्कीर्त्तनसंस्थान सामाचारी भावभेदादशस्वाऽऽनुपूर्वीषु, सामायिकस्योत्कीर्त्तना गणनानुपूर्व्योः समवतारः, यथा सामायिक चतुर्विंशतिस्तव इत्याद्युत्कीर्त्तना, आद्यं, द्वितीयं तृतीयं, इत्यादिगणना, सा च पूर्वपश्चानानुपूर्वीभेदात्रिधा, तत्र पूर्वानुपूर्व्यां १ हारि० वृत्तौ तु नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तस्य क्रियेति भावार्थ:, मिश्रवचनश्च नोशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy