________________
आवश्यक
नियुक्ति
दीपिका ॥
॥३२॥
दन्तधावनायं १, कुप्रावचनिकंचरकादीनां प्रातः स्कन्दाद्यर्चादि २, लोकोत्तरं नोआगमतो ज्ञभव्यदेहव्यतिरिक्तं तत् यत् श्रमण- उपोद्गुणहीनाः, षट्जीवनिकायाऽदयाः पाश्वस्थाद्या देहभूषाऽश्वेतवस्त्रचित्रदंडस्नानादिपराः स्वच्छन्दा वा विहृत्योभयसन्ध्यं आवश्यक घातः॥ कुर्युः, प्रमत्तर्षयो वा अनुपयुक्ताः कुर्युः फलाऽभावात्तल्लोकोत्तरं द्रव्यावश्यकं ३, अत्र दृष्टान्तः–वसन्तपुरे अगीतार्थसंविग्नो गच्छ-1d स्तेष्वेकोऽगीतार्थः श्रमणगुणहीनः सदोदका पाण्याधाकर्मादिदोषाहारं कृत्वा विकाले महासंवेगादालोचयत् तस्य गणी अगीतार्थत्वात्प्रायश्चित्तं दददाह-अहो ! अयं श्रेष्ठः साधुः, सुखं सेवितुं दुःखमालोचितुमेवमेष आलोचयनशठत्वाच्छुद्ध एव, एतद् दृष्ट्वाऽन्येऽगीतार्था साधवः प्राशंसन् दध्युश्च, यत् तत् कृत्वा आलोच्य शुद्धयते । तत्र अन्यदा कोऽपि गीतार्थः संविग्नः आगात् | स तत् क्रियालोचनायं दृष्ट्वा गुरुं प्रति दृष्टान्तमूचे-गिरिनगरे कोऽपि वणिग् रत्नैर्गृह भृत्वाऽदाहयत्तं लोकः प्राशंसदहो धन्योऽग्निं भगवन्तं तर्पयति । अन्यदा तेन रत्नगृहे प्रदीपिते वाते प्रचुरे सर्व पुरं दग्धं, ततो राज्ञा सर्वस्वदण्डः कृतः । अन्यपुरे एवं कुर्वन्नन्यः सर्वस्वदण्डाद्विसृष्टोऽरण्यम्, कस्मात् प्रदीपयसि गृहं ? । यथा तेन स्वान्यगृहाणि दग्धानि, तथा त्वं गुरुरप्येनं प्रशंसन् स्वमन्यान् दहसि, एवं गुरावुक्तेऽपि अशिक्ष्यमाणे साधूनूचे, एष महानिर्धर्मोऽगीतार्थो, अलमेतस्याऽऽज्ञया, चेदेतस्य निग्रहो न क्रियते तदाऽन्ये विनंक्ष्यन्ति, एवं द्रव्यावश्यकं । भावावश्यकं द्विधा, आगमत आवश्यकज्ञाता तत्र चोपयुक्तः।१। नोआगमतो भावावश्यकं विधा, लौकिकं यत्पूर्वाह्वे भारतव्याख्याऽपराह्वे रामायणव्याख्या १, कुप्रावचनिकं चरकादीनां स्वस्वसुरस्मृतिमुख्यमनुष्ठानकरणं, लोकोत्तरं नोआगमतो भावावश्यकं ज्ञानक्रियारूपमिश्रं साधुसाध्वीश्राद्धश्राद्धिकाभिरेकांते शुद्धाशयैरुभयकालमावश्यककरणं २, यतः 'समणेण सावएण य, अवस्स कायव्वयं हवइ जम्हा । अंतो अहोनिस्सिस्स य, तम्हा आव
Jan Education Intera
For Private & Personal use only
Silww.jainelibrary.org