________________
Jain Education Interna
प्रमाणः सिद्धास्त्वनन्ताः, क्षेत्रस्पर्शना जघन्यं लोकासंख्यभागः, उत्कृष्टं केवलिसमुद्घाते सर्वलोकः कालः साद्यनन्तः, अप्रतिपातित्वान्नान्तरं, भागो मतिवत् भावे क्षायिके, अल्पबहुत्वं द्रव्यप्रमाणवत् ॥ ७८ ॥ ' इत्थं ' इत्थं पुण अहिगारो, सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽवि अ, अणुओगु पईवदिट्ठन्तो ॥ ७९ ॥
अत्र पुनः श्रुतज्ञानेनाधिकारः, यतः श्रुतेनैव, तुरेवार्थः, शेषाणां मत्यादीनां आत्मनोऽपि च श्रुतस्येत्यर्थः, अनुयोगो व्याख्याऽक्रियते दीपवत् स्वान्य प्रकाशित्वात्तस्य ॥ ७९ ॥
॥ इति पीठिका विवरणं समाप्तं ॥
इह श्रुतशब्देन श्रुतातमावश्यकं उक्तं तन्नामस्थापनादिभेदं चतुर्धा, तत्र द्रव्यावश्यकं द्विधा आगमतो नोआगमतश्च, आगमतो यस्य तु आवश्यकमिति पदं शिक्षितं पाठान्तं नीतं १ स्थितं अविस्मृत्या चित्ते स्थितं २ जितं परावर्त्तने परप्रश्ने वा शीघ्रं कण्ठस्थं ३ परिजितं क्रमोत्क्रमाभ्यां गुणनं कुर्वतः स्फुरति तत् ४ नामसमं स्वनामवद् जातं ५ घोषसमं गुरुघोषोचारसमं शिष्योचार्य ६ अहीनाक्षरं एकेनापि वर्णेनाऽहीनं ७ अनत्यक्षरं एकेनापि नाऽधिकं ८ अव्याविद्धं अविपर्यस्ताक्षरं ९ अस्खलितं विषमभूगंत्रीवत्स्खलनहीनं १० अमिलितं बहुशास्त्रसूत्रैरमिलितं १९ अव्यत्याग्रेडितं अस्थानयतिहीनं १२ स्याद्वाना १ प्रश्न २ गुणन ३ धर्मकथा ४ अनुप्रेक्षा ५ कलितं च, स नर आगमतो द्रव्यावश्यकं । नोआगमतो द्रव्यावश्यकं त्रिधा ज्ञशरीरद्रव्यावश्यकं, आवश्यकशब्दार्थज्ञस्याऽजीवो देहः । १ । भव्यशरीरद्रव्यावश्यकं येनाऽङ्गेनावश्यकशब्दार्थं ज्ञास्यति।२। तद्वयविरक्तं नोआगमतो ज्ञभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकं त्रिधा, लौकिकं राजादिलोकानां शय्योत्थानादनु प्रातर्मल्लयुद्धस्नान
For Private & Personal Use Only
www.jainelibrary.org