________________
बावश्यकनियुक्तिदीपिका॥
केवलज्ञानम् ॥
अह सव्वदव्वपरिणाम-भावविण्णत्तिकारणमणतं । सासयमप्पडिवाइ, एगविहं केवलन्नाणं ॥७७॥ ____ अथ सर्वद्रव्याणां जीवादीनां परिणामाः प्रयोगविस्रसोभयजन्या उत्पादादयस्तेषां भावः सत्ता, तस्य विशेषेण | ज्ञप्तिर्ज्ञानं तस्याः कारणं, अनन्तं ज्ञेयानंत्यात् , शाश्वतं सर्वकालभावि, अप्रतिपाति द्रव्यपर्यायैः सदैव तथाभूतत्वात् , केवलज्ञानं स्यात् , एकविध आवृत्यभावात् ।। ७७ ।। 'केव' केवलणाणेणत्थे णाउं, जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो, वयजोग सुयं हवइ सेसं ॥७८॥ __ केवलज्ञानेनार्थान् ज्ञात्वा ये तत्र प्रज्ञापनायोग्याः, श्रोतृशक्त्यपेक्षया कथनार्दास्तान् तीर्थकरो भाषते । इहाऽर्था द्विधा अनभिलाप्या अभिलाप्याश्च, अभिलाप्या द्विधाऽप्रज्ञाप्याः प्रज्ञाप्याश्च, तत्र अनभिलाप्यानामनन्ते भागे अभिलाप्याः तेषामप्यनन्ते भागे प्रज्ञाप्यास्तेषामप्यनन्तभागः पूर्वेषु बद्धः स्यादिति, 'वयजोगे 'ति स शब्दराशिः प्रभोर्वाग्योग एव न श्रुतं नामकर्मोदयहेतुत्वात् , श्रुतस्य तु क्षायोपशमिकत्वात् , श्रोतृणां तु स भावश्रुतहेतुत्वाच्छेषं-अप्रधानं श्रुतं द्रव्यश्रुतमित्यर्थः । सत्पदप्ररूपणायां नृसिद्धगत्यतींद्रियत्रसकायाकायसयोगायोगावेदाकषायशुक्ललेश्यालेश्यसम्यग्दृष्टिकेवलज्ञानदर्शनसंयतनो(संयता )संयतसाकारानाकारोपयोगाहारकानाहारकभाषकाभाषकपरीतनो( परीत्ता )परीतपर्याप्त( नोपर्याप्तापर्याप्त )बादरनोबादर( सूक्ष्म )संज्ञिनो( संजय )संज्ञिभव्यनो( भव्या )भव्य( चरमनो )चरमाचरमेषु प्रपद्यमानाः पूर्वप्रपन्नाः, भवस्थकेवलिन: सिद्धाश्च स्वधियोह्याः, चरमः केवली अचरमः सिद्धः। द्रव्यप्रमाणे उत्कृष्टं प्रपद्यमाना अष्टशतं, पूर्वप्रतिपन्नाः कोटीपृथक्त्व
॥३१॥
Jain Education Intern
For Private & Personal Use Only
Twww.jainelibrary.org