________________
ऋजुविपुलमतिकेवलित्वं चेति त्रयोदश नाऽभव्यनृषु । अमूः क्षीरासद्धिश्च नाऽभव्यस्त्रीषु ॥ ७५ ॥ उक्तमवधिज्ञानं, यद्यप्युत्कृष्टावधिर्मनांसि पश्यति तथाऽपि सविशेषमनोद्रव्यग्राहित्वादप्रमत्तयतेरेव भावित्वाच्च मनःपर्यवज्ञानं पृथुगुक्तं-'मण' मनःपर्यायज्ञानं पुनर्जनमनःपरिचिंतितार्थप्रकटनं स्यात, मानुषक्षेत्रनिबद्धं स्यात् , गुणाः क्षान्त्यादयः प्रत्ययो हेतुर्यस्य तद्गुणप्रत्ययं, चारित्रवतोऽप्रमत्तस्याप्तर्द्धः स्यात् , तद्विधा ऋजुमतिर्विपुलमतिश्र, मननं मतिर्ज्ञानं, ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः घटो ध्यात इत्यादि सामान्यमनोद्रव्यज्ञप्तिः, विपुला विशेषग्राहिणीमतिर्विपुलमतिः, द्रव्यक्षेत्रादिविशिष्टघटादिप्राज्यविशेषयुक्तमनोद्रव्यज्ञप्तिरिति । तत्र ऋजुमतिर्द्रव्यतोऽनन्तान् अनन्तप्रदेशस्कन्धान मनस्त्वपरिणतान् साक्षाद्वेत्ति, ध्यातं तु मूर्त द्रव्यं, यद्यवधिः स्यात्तदा तेन, नोचेन्मुर्तामू अपि द्रव्ये मनोद्रव्याणां ईदृशाकारान् यथानुपपत्तेरिदं वस्तु ध्यातमस्तीत्यनुमानरूपेण मानसबलेनैव वेत्ति, क्षेत्रत उध्वं ज्योतिष्कोर्ध्वतलं, अधोऽधोग्रामाधाप्रतरं यावत्, प्रत्यग्विदेहे नलिनावतीवप्रविजययोः सहस्रयोजनावगाढा अधोग्रामाः, 'जोयणसयदस गंतु, समधरणीए अहो अहोगामा । बायालीससहस्से, गंतु मेरुस्स पच्छिमओ' ॥१॥ तिर्यग्नृक्षेत्रांतः, कालतः पल्यासंख्यभागमेष्यमतीतं च, भावतः दीर्घकालिक्युपदेशसंज्ञिमनोद्रव्यपर्यायान् अनन्तान् सर्वभावानां च अनन्तभागं वेत्ति, विपुलमतिस्तु तानेव द्रव्यादीन् विशुद्धतरान् , क्षेत्रं त्वर्धत्तीयोत्सेधांगुलाधिकं वेति, एतच्च ज्ञानमेव न दर्शनं, प्रतिनियतमनोद्रव्याकारस्यैव ग्राहित्वेन दर्शनत्वायोगाद सत्पदपरूपणादि अवधिवद्वाच्यं । किंत्वप्रमत्तयतिरस्योत्पादस्वामी तदनुसारेण सर्वत्र नानात्वं स्वयमृह्य, अनाहारापर्याप्ती तु न पूर्वप्रपन्नौ नाप्यन्यौ ॥ ७६ ॥ ' अह'
Jain Education Inter
For Private & Personal Use Only
|www.jainelibrary.org