SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ म्यपरिमाणभेदादष्टधा, यथाऽनुयोगद्वारे । तत्र कालिकश्रुतपरिमाणसंख्यायां अवतारः, कालवेलावर्जकाले पाठात् | कालग्रहणापेक्षया तूत्कालिके श्रुते । तच्च सूत्रतः संख्यातवर्णमानं अर्थतस्त्वनन्तं, अनन्तपर्यायत्वात् । ३ । वक्तव्यता स्वसमयपरसमयोभयभेदात् त्रिधा, तत्राद्यायां अवतारः । एवं परसमयेऽपि अवतारस्तस्य परसमयस्यापि सम्यग्दृष्टिपठितस्य स्वसमयोपकारित्वात् । ४ । अर्थाधिकारः सावद्यविरतिः । ५। समवतारस्तु प्रतिद्वारं उक्त एव । ६। अथ निक्षेपः ओघनिष्पन्नो नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्च, ओघः सामान्य अंगश्रुतस्कन्धाध्ययनादिशब्दरूपं । तत्र ओधेन निष्पन्ने निक्षेपे सामायिक अध्ययनं उच्यते । ततो नामस्थापनाद्रव्यभावैरध्ययनस्य निक्षेपे कृते भावाध्ययनं इदं ज्ञेयं, अधिक अयनं मार्गः बोधस्य संयमस्य भोक्षस्य वा इदमित्यध्ययनं । नामनिष्पन्ने निक्षेपे तु सामायिकं नाम, तदपि नामादिभिश्चतुर्धा निक्षेप्यं । सूत्रालापकनिष्पन्न निक्षेपः सूत्रपदानां नामादिभिासः, स चाग्रे वक्ष्यते । अथानुगमः ओघादिभिर्निक्षिप्तस्य व्याख्यारूपः स च सूत्रानुगमो नियुक्त्यनुगमश्च, सूत्रेणानुगमः सूत्रानुगमः सूत्रव्याख्या, नियुक्त्याऽनुगमो नियुक्त्यनुगमः । नियुक्तिस्त्रिधा निक्षेपोपोद्घातसूत्रस्पर्शिभेदात् , निक्षेपनियुक्तिर्नामादिभिर्निक्षिप्य व्याख्या, सा च निक्षेपद्वार एवोक्ता ज्ञेया, उपोद्घातनियुक्तिरुपोद्घातस्य शास्त्रोत्पत्तिरूपस्य व्याख्या, 'उद्देसे निदेसे' इत्यादिका । सूत्रस्पर्शिनियुक्तिस्त्वग्रे वक्ष्यते । नयरूपं तुर्यमनुयोगद्वारं तु नियुक्तीनामन्ते वक्ष्यते । अधुना उपोद्घातस्य प्रस्तावः, उपक्रमनिक्षेपाभ्यां उप समीपं प्राप्तस्य उत्प्राबल्येन उद्देशनिर्देश निर्गमादिप्रकारेहननं विचारणमुपोद्घातस्तत्प्रारंभे नोआगमतो भावमङ्गलमाह-'तित्थयरे' तित्थयरे भगवंते, अणुत्तरपरक्कमे आमियनाणी । तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥८॥ Jain Education Intern For Private & Personal use only Padhe Tww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy