________________
अहेत्स्तुत्रिः
आवश्यक नियुक्ति- दीपिका ॥ ॥२॥
संयमः १७ भेदः तपांसि द्वादशधा तान्येव क्रमात्तुंवारा यस्य तस्मै संयमतपस्तुबारकाय, सम्यक्त्वं एव पारियल्लं बाह्यपृष्टस्य बाह्याभ्रमियस्मिन् तस्मै सङ्घचक्राय नमोऽस्तु । तथा नास्ति प्रतिरूपं तुल्यं अन्यत् परमतचक्रं यस्य सोऽप्रतिचक्रः तस्य सङ्घचक्रस्य सदा जयो भवतु ॥ ५ ॥ 'भई'भदं सीलपडागूसियस्स, तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ, सज्झायसुनांदघोसस्स ॥६॥ ___ उत्सृता शीलमेव पताका यस्य स उत्सृतशीलपताकः तस्य, प्राकृतत्वात् व्यत्ययः, तपोनियमाभ्यां तुरगाभ्यां युक्तस्य, तत्र तपः परिमितकालं इच्छानिग्रहः नियमो यावजीवं, सङ्घरथस्य भद्रं अस्तु, भगवतः पूज्यस्य शिवपुरगामित्वात् , स्वाध्यायो वाचनापृच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथारूपः पश्चधा स एव सुष्ठु नन्दिघोषस्तूर्यनादो यस्य, यतो महारथाऽग्रे तूर्यनादा जायन्ते, यद्वा स्वाध्याय एव सुष्ठु नन्दी वर्द्धमानः घोषो निर्घोषो यस्य, स स्वाध्यायसुनन्दिघोषः तस्य ॥ ६ ॥ 'कम्म'कम्मरयजलोहविणिग्गयस्स, सुयरयणदीहनालस्स।पंचमहव्वयथिरकन्नियस्स, गुणकेसरालस्स ॥७॥ ____ कर्म द्विधा बध्यमानं प्राम्बद्धं च, तत्र आधे रजः पङ्कः तत् सम, द्वितीयं तु जलौघोपमं, ताभ्यां उत्कृष्टस्थित्यादियुक्ताभ्यां विनिर्गतस्य, श्रुतरत्नं जनागमः तदेव दीर्घ नालं यस्य, पञ्चमहाव्रतानि एव स्थिरा कर्णिका सर्वपत्रमूलपीठं यस्य, गुणा उत्तरगुणा एव केसराणि यस्य प्राकृतत्वात मत्वार्थे आलप्रत्ययः॥७॥'सावग'सावगजणमहुआरिपरिवुडस्स, जिणसूरतेयबुद्धस्स । संघपउमस्स भई, समणगणसहस्सपत्तस्स ॥८॥
www.jainelibrary.org
Jain Education inte
For Private & Personal Use Only