SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ सोऽपश्चिमः, लोकानां गुरुर्धर्मादेष्टा, महानचित्यशक्तिः आत्मा यस्य सःमहात्मा श्रीमहावीरः, जयतीति पुनः पुनः स्तवाधिकाराददुष्टम् । यतः 'सज्झायज्झाणतवओसहेसु, उवएसथुइपयाणेसु । संतगुणकित्तणासु य न हुन्ति पुणरुत्तदोसाउ' ॥१॥॥२॥ भई' भदं सबजगुज्जोयगस्स, भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स, भदं धुयरयस्स ॥३॥ ___सर्वजगदुद्योतकस्य भद्रं भवतु । इह किल स्तुतौ चत्वारोऽतिशया वर्ण्यन्ते । ते चात्रैवं-सर्वजगदुद्योतकस्य इति सम्यग् | जगदालोकनेन तथैव प्ररूपणेन च ज्ञानवचनातिशयौ, जिनस्य इति भावारिजयादपायापगमातिशयः, सुरासुरनमस्कृतस्य इति पूजातिशयः, एवं समवसरणाऽवस्था । तथा धूतं रजः कर्म येन स धूतरजाः तस्य, एवं सिद्धावस्था उक्ता ॥३॥ ____ अथ अर्हतां संघस्थापकत्वात् संघस्य च अर्हद्वन्द्यत्वात् सङ्घस्तुतिमाह ॥ 'गुणभवणेत्यादि'गुणभवणगहण सुयरयणभरिय दंसणविसुद्धरत्थागा। संघनगर ! भदंते, अक्खंडचारित्तपागारा ॥४॥ ___गुणाः पिण्डविशुद्धयाद्या उत्तरगुणास्त एव भवनानि तैर्गहनं व्याप्तं, गुणभवनगहनं तस्य आमन्त्रणं हे गुणभवनगहन ! हे श्रुतरत्नभृत ! श्रुतमेव रत्नं श्रुतरत्नं तेन भृत!, हे दर्शनविशुद्धरथ्याक ! दर्शनं सम्यक्त्वमेव विशुद्धा रथ्या मार्गो यस्य, प्राकृतत्वाद् आकारनिर्देशो यथा गोयमा! हे सङ्घनगर! सङ्घ एव नगरं सङनगर ! ते भद्रं अस्तु, हे अखंडचारित्रप्राकार ! चारित्रं मूलगुणा महाव्रतरूपाः, अखण्डचारित्र एव प्राकारो यस्य ॥ ४ ॥ 'संजम'संजमतवतुंबारयस्स, नमो सम्मत्तपारियल्लस्स। अप्पडिचक्कस्स जओ, होउ सया संघचक्कस्स ॥५॥ Jain Education interne For Private & Personal Use Only ww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy