________________
Jain Education Interna
॥ ६६ ॥ उक्तं देशद्वारम् १२ ॥ अथ क्षेत्रसंबद्धद्वारम् १३ ॥ ' संखि ' -
संखिज्जम संखिज्जो, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ ६७ ॥
संबद्धोऽवधिः क्षेत्रतः संख्येयोऽसंख्येयो वा स्यादसंबद्धस्तु पुरुषादबाधा अन्तरं तया सह संख्येयोऽसंख्येयो वा, कोऽर्थः संख्येय अन्तरं संख्येयोऽवधिः १ संख्येयं अन्तरं असंख्येयोऽवधिः २ असंख्येयं अन्तरं संख्येयोऽवधिः ३ असंख्येयं अन्तरं असंख्येयोऽवधिः ४ एवं चतुर्भङ्गी पदत्रयं च व्याख्यातं, 'लोग' तत्र लोकसम्बद्धे चतुभङ्गीः नरि सम्बद्धो लोके च लोकमात्रः १ नरि संबद्धो न लोके देशाऽभ्यंतरोऽवधिः २ । न नरि लोके शून्यो भङ्गः ३ न नरि न लोके बाह्यावधि: ४ अलोकसम्बद्धस्त्वात्मसम्बद्ध एव ॥ ६७ ॥ उक्तं क्षेत्रद्वारम् १३ ॥ अथ गत्यादिद्वारम् १४ ॥ ' गइ ' गइनेरइयाईया, हिट्ठा जह वणिया तव इहं ।
इडी एसा वणिज्जइत्ति तो सेसियाओवि ॥ ६८ ॥
गतिर्नारकादिका उपलक्षणादिन्द्रियादिद्वाराणि सत्पदप्ररूपणादयश्च यथा ' हिड्डा' अधो मतेर्वर्णिताः तथैवेहावधेरपि ज्ञेयाः विशेषस्त्वेषः-अवेदका अकषायिणश्च श्रेणिद्वयस्थास्तथा मनोज्ञानिनस्तथा नाहारापर्याप्ताः, पूर्वसम्यग्दृशः सुरनारका अप्यन्तरालगत्यादौ शक्तिमधिकृत्यावधेः प्रपद्यमानाः स्युः । पूर्वप्रपन्नास्तु विकलाऽसंज्ञिवजः । ऋद्धिरेषाऽवधिरूपा वर्ण्य
For Private & Personal Use Only
www.jainelibrary.org