________________
आवश्यक नियुक्ति- दीपिका ॥
अवधेज्ञानादिद्वारत्रयम् ॥
॥२८॥
एकस्माद् द्रव्यादुत्कृष्टं असंख्यान् मध्यमं संख्येयान् पर्यायान् लभते, जघन्यं द्वौ पर्यायौ द्विगुणौ चतुरो वर्णगन्धरसस्पर्शानिति लभते ॥ ६४ ॥ उक्तः प्रतिपातादिः, द्वारम् ८॥ अथ ज्ञानादिद्वारत्रयम् ११ ॥ 'सागा'
सागारमणागारा, ओहिविर्भगा जहण्णगा तल्ला ।
उवरिमगेवेजेसु उ, परेण ओही असंखिजो ॥६५॥ १ साकारो विशेषबोधो ज्ञानं । १ । अनाकारः सामान्योपयोगो दर्शनं ॥ २ ॥ तावऽवधिरूपी विभङ्गरूपौ च, नारक- IN भवनपतिभ्य आरभ्य उपरिमौवेयकेष्वपि जघन्यौ तुल्यौ स्तः न तूत्कृष्टौ, द्रव्यभावानाश्रित्य त्ववधिविशुद्धः। भाष्ये तु भवनपतिभ्य आरभ्य यावदुपरिमौवेयकदेवास्तेषां जघन्यमध्यमोत्कृष्टस्थितिनां अवधिविभङ्गज्ञानदर्शने क्षेत्रादिविषयमाश्रित्य क्रमेण जघन्यमध्यमोत्कृष्टे, परस्परं तुल्ये स्तः, ततः परं अवधिरेव, स चासंख्यः क्षेत्रतोऽसंख्येययोजनविषयः, कालतस्त्वसंख्यवर्षविषयः स्यात् , द्रव्यभावस्त्वनन्त एव मिथ्यादृशां तत्राऽभावात् , नृतिरश्चां त्ववधयोऽतिविचित्रा स्युः ।। ६५ ।। उक्तं ज्ञानादिद्वारत्रयम् ११ ।। अथ देशावधिद्वारं १२ ॥ 'रइ'
णेरडयदेवतित्थंकरा य ओहिस्सऽबाहिरा हंति ।
पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ ६६ ॥ नैरयिका देवास्तीर्थकराश्वावधेरबाह्या इति नियतावधयोऽभ्यन्तरलब्धयश्च, 'सेसा' शेषा देशतोऽपि सर्वतोऽपि पश्यन्ति
॥२८॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org