________________
Jain Education Inter
मिकः सर्वासु दिक्षु स्यात् । अनानुगामिकः स्थितदीपवत्, यत्र स्थितस्य ज्ञानमुत्पन्नं ततोऽन्यत्र गतो न पश्येत् पुनस्तत्रैवागतः पश्यति, मिश्रः किञ्चिदन्वेति किञ्चिन ॥ ५६ ॥ उक्त अनुगामिकादि:, द्वारम् ४ । अथावस्थितद्वारम्, ५' खित्त ' - खित्तस्स अवद्वाणं, तित्तीसं सागरा उ कालेणं । दव्वे भिण्णमुहुत्तो, पज्जवलंभे य सत्तट्ठ ॥ ५७ ॥
अवधेः क्षेत्रस्येति क्षेत्रमाश्रित्यावस्थानं कालेन त्रयस्त्रिंशत्सागरा अनुत्तरसुराणां यतो अनुत्तरसुरा यत्र शय्यायां उत्पन्नास्तत्रैवाभवक्षयं तिष्ठन्ति । चूर्णौ तु भवरूपं क्षेत्रं आश्रित्याऽवधिः सुरनारकाणां त्रयस्त्रिंशत् सागराः, तुरेवार्थः । द्रव्ये उपयोगावस्थानं अन्तर्मुहूर्त्त अवधेः पर्यायलाभे पर्यायदर्शने सप्ताष्ट च समया अवस्थानं स्यात्, तत्र पर्यायेषु समयाः सप्त गुणेषु चाष्ट सहवर्त्तिनो गुणाः शुक्लादयः, क्रमवर्त्तिनः पर्याया नवपुराणादयः ॥ ५७ ॥ 'अद्धा ' -
अध्धाइ अवद्वाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इको समओ जहणणं ॥ ५८ ॥
अद्धा अवधिलब्धिकालः तस्यावस्थानं कालेन षट्षष्टिसागराः, तु शब्दात् साधिकाः उत्कृष्टकं त्वेतत् 'इको' नृतिएकसमयोsवधिज्ञानादनुद्वितीयसमये मृतेश्वधेः प्रतिपाताद्वा । देवनारकाणां तु च्युतिसमये सम्यक्त्वाप्तौ विभङ्गस्याऽवधित्वापत्तेर्वा भाव्यः ॥ ५८ ॥ उक्तोऽवस्थितः, द्वारम् ५ । अथ वृद्धिहानिभ्यां चल इति द्वारम् ६ । 'बुड्डी' - वा हाणी वा, चउब्विहा होइ खित्तकालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥ ५९ ॥
For Private & Personal Use Only
www.jainelibrary.org