________________
आवश्यक नियुक्ति दीपिका ॥
अवधेः क्षेत्रपरिमाणम् ॥
॥२५॥
द्रव्यकालभावाः स्वयं ज्ञेयाः ।। ५०॥ 'एए'एएसिमसंखिज्जा, तिरियं दीवाय सागरा चेव । बहुअअरं उवरिमगा, उढं सगकप्पथूभाई ॥५१॥ |
तिर्यगेषां सौधर्मदेवादीनां विषयोऽसंख्या द्वीपाः सागराश्च । कालोऽसंख्यस्तैजसादिद्रव्याणि मनोद्रव्याऽवाग्वर्तीनि, अनुत्तराणां ध्रुववर्गणा द्रव्याणि च, तत्रापि बहुतरं उपरिमका उपर्युपरिवासिनः पश्यन्ति, स्वकल्पस्तुपो निजविमानं आदिशब्दाद् ध्वजादि । यतो 'उड़े जाव सकाणं भवणाणं उवरिल्ले चरमंति'त्ति ।। ५१ ।। 'संखे'-- संखेजजोयणा खलु, देवाणं अद्धसागरे ऊणे । तेण परमसंखेजा, जहणणयं पंचवीसं तु ॥ ५२ ॥
वैमानिकवर्जानां ऊनाऽर्धसागरे आयुषि संख्येययोजनान्यवधिः ततः परं अर्धाब्ध्यायुष्यऽसंख्यानि योजनान्यवधिः स्यात् , जघन्यतो दशवर्षसहस्रायुषि पंचविंशतियोजनानि, तुरेवार्थः । अत्र क्षेपकगाथा: 'वेमाणियवज्जाणं, सामन्नमिणं तहावि हु विसेसो। उड्वमहे तिरियमि य, संठाणवसेण विण्णेओ' ॥१॥ वैमानिकवर्जानां भुवनपतिव्यन्तरज्योतिर्देवानां । इदं 'संखेजजोयणा खलु' इत्यादि गाथोक्तं, सामान्यतोऽवधिप्रमाणं उक्तं तथापि अवधेविस्तारोच्चत्वादिविशेष ऊर्ध्व अधस्ति| र्यग्वक्ष्यमाणेन 'तप्पागारे 'गाथोक्तेन संस्थानवशेन विज्ञेयः । तथा 'पणुवीसजोयणाई, दसवाससहस्सिया ठिई जेसि ।
विहो विजोइसाणं, संखिज ठिईविसेसेणं' ॥२॥ पंचविंशतियोजनानि जघन्यमवधेः क्षेत्रं ज्ञेयं, कालः पक्षमध्ये, द्रव्याणि तत्क्षेत्रस्थानि प्रायः स्थूराणि विषयः येषां दशवर्षसहस्राणि स्थितिरस्ति तेषां भवनपतिव्यन्तराणामित्यर्थः । ज्योतिष्काणां
G
॥२५॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intelle