________________
आवश्यकनियुक्तिदीपिका॥
अवधेः कालद्वारम्।
॥२४॥
तस्त्वनन्तद्रव्याण्याश्रित्यानन्तपर्यायान् लभते जानाति पश्येच्च । क्षेत्रमानमेव विशिनष्टि, क्षेत्रोपमितं क्षेत्रोपमानं त्वग्निजीवाः पूर्वोक्ताः ॥ ४५ ॥ 'आहा'
आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु ।
गाउय जहण्णमोही, नरएसु उ जोयणुकोसो ॥ ४६ ॥ तिर्यग्योनिषु तिर्यक्षु उत्कृष्टेऽवधौ आहारतेजोद्रव्याणां लाभोऽवगमः स्यात्, आहारतेजोग्रहणादौदारिकवैक्रियाहारकतैजसद्रव्याणि तदन्तरस्थतदयोग्यद्रव्याणि च ज्ञेयानि, द्रव्यानुसारेण क्षेत्रकालावपि ज्ञेयो, 'बोधवमसंखिजा,दीवसमुद्दा य कालो य' । महतः एकदेशो वा । अथ भवप्रत्ययोऽवधिः, तत्र नारकानाश्रित्य सामान्येनाह-'गाउय' नरके गव्यूतं जघन्योऽवधिः, उत्कृष्टस्तु योजनं ॥ ४६॥ अथ विशेषेणाह 'चत्ता'चत्तारि गाउयाई, अद्भुट्ठाइं तिगाउया चेव । अड्डाइज्जा दुण्णि य, दिवड्डमेगं च निरएसु ॥४७॥ ___ आये नरके चत्वारि गव्य॒तानि, तत्रापि दशवर्षसहस्रायुषोऽर्धचतुर्थानि, सागरायुषस्तु चत्वारि, द्वितीयेऽर्धचतुर्थानि, तृतीये त्रीणि, चतुर्थेऽर्धतृतीयानि, पञ्चमे द्वे, षष्टे दूध, सप्तमे एकं गव्यूतं उत्कृष्टोऽवधिः सप्तमभुन्यप्यवधिविभंगी स्तः, यतस्तत्रौपशमिकं क्षायोपशमिकं च प्रतिपातिसम्यक्त्वमस्ति नत्वप्रपिपाति, अप्रतिपातिसम्यकित्वनस्तिर्यगायुषोऽबन्धात् तदुद्भूतानां च तिर्यक्ष्वेव गतेः ॥ ४७॥ 'अद्ध'--
॥ २४॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org