________________
तैजसकार्मणशरीरावधौ तैजसभाषाद्रव्यावधौ च क्षेत्रं प्रत्येकं असंख्या द्वीपसमुद्राः कालश्चाऽसंख्येयः पल्यासंख्येयभागो विषयत्वेन बोधव्यः । असंख्यद्वीपसमुद्रोक्तावप्यसंख्यासंख्येययोजनविस्तृतद्वीपाब्धयोरेकदेशोऽपि विषयत्वेन ज्ञेयः, तत्र तैजसदेहात्कार्मणस्य सूक्ष्मत्वात् , ततोऽपि तैजसद्रव्याणां ततश्च भाषाद्रव्याणां सूक्ष्मत्वादवधिविषयक्षेत्रकालानां सामान्येनासंख्यत्वेऽपि बृहत्त्वं स्वयं ज्ञेयं ॥ ४३ ॥ इह जघन्यावधिरगुरुलघुद्रव्यं सूक्ष्म पश्यन्नपि घटादीन् स्थलान् न पश्यतीत्यादियुक्त्याऽवधेर्वैचित्र्यभावान् स्पष्टत्वेनाह 'एग'
एगपएसोगाढं, परमोही लहइ कम्मगसरीरं ।
लहइ य अगुरुयलघुअं, तेयसरीरे भवपुहृत्तं ॥ ४४ ॥ एकप्रदेशे एकस्मिन् नभप्रदेशेऽवगाढं स्थितं अणुस्कन्धादि परमावधिर्लभते पश्यति तथा कार्मणशरीरं, तच्च सूक्ष्ममध्यऽनेकाकाशप्रदेस्थमेव ज्ञेयं । तथा अगुरुलघु एतत् त्रयं सूक्ष्मत्वादुक्तं, चशब्दाद्गुरुलघुतैजसशरीरविषयेऽवधौ भवपृथक्त्वं पश्यतीत्युक्या प्रागुक्त एव पल्यासंख्यभागमानोऽसंख्यकालो विशिष्योक्तः॥ ४४ ॥'पर'
परमोहि असंखिजा, लोगमित्ता समा असंखिजा ।
रूवगयं लहइ सव्वं, खित्तोवमिअं अगणिजीवा ॥४५॥ परमावधिः क्षेत्रतो लोकमात्राण्यसंख्यखंडानि, कालतोऽसंख्यसमा उत्सप्पिण्यवसप्पिणीः, द्रव्यतः सर्व रूपिद्रव्यं, भाव
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org