SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern वृद्ध्याऽनन्ता इतरा इत्यध्रुवाः कदाचिल्लोके न स्युरपि । ततः ' सुन्नत्ति' शून्यान्तरा एकोत्तरवृद्ध्या कदाचित् सान्तरा यथा नवभिर्दशभिर्वृद्धास्ततो द्वादशभिः पञ्चदशभिरणुभिर्वृद्धा इत्यर्थः । तत इतरा अशून्यान्तराः एकोत्तरवृद्ध्या, परं ता अध्रुवा अपि ततचतस्रो ध्रुवाऽनन्तरा अणुवृद्धाः प्रत्येकमनन्ताः । अत्र चतसृणामप्यासां मध्ये नैरन्तर्येणैकोत्तरवृद्धिरन्ते चाणूनामवृद्धया समत्वं स्थानचतुष्केस्ति । चतुष्कत्वे हेतुर्बहु १ बहुतर २ बहुतम ३ अतिबहु ४ प्रादेशवच्चं ज्ञेयं । एवं तनुवर्गणास्वपि ज्ञेयं । ततश्चतस्रस्तनुवर्गणाः केषांचित्स्वाणूनां विगमादन्याणूनां च संगमादौदारिकाद्यर्हताभिमुखाः, ततः सूक्ष्म ईषद्वादरत्वाहमिश्रः स्कन्धस्ततोऽचित्तमहास्कन्धः स च विश्रसा परिणत्या केवलिसमुद्घातगत्याऽष्टसमयैर्लोकं पिपर्ति स्वं संहरेच अयं बहुद्रव्योऽपि चतुःस्पर्श एव, उत्कृष्टद्रव्यस्कन्धस्तु प्रज्ञापनाग्रन्थेऽष्टस्पर्श उक्तोऽतोऽन्येऽपि स्कन्धाः सन्तीति ज्ञेयं । केवलिसमुद्घातकृत्सचित्तकर्माणुमहास्कन्धव्यवच्छित्यै अचित्तविशेषणं । तथा कालतः एकसमयस्थितीनां एका वर्गणा एवमसंख्यसमयस्थितीनामसंख्याः । भावतः एकगुणकृष्णानामेका एवमनन्तगुणकृष्णानामनन्ताः, एवं शेषवर्णसुगन्धदुर्गन्धतिक्तकडुकपायाऽऽम्लमधुररसमृदुखरशीतोष्णस्निग्धसूक्ष्मस्पर्शनामनन्ताः । गुरुलघूनां अगुरुलधूनां चैका वर्गणा स्यात्, एताः सर्वा अपि प्रत्येकं सर्वलोके सन्ति ॥ ४० ॥ ' ओरा ' ओरालिअवेडव्विअ-आहारगतेअगुरुलहूदव्वा । कम्मगमणभासाई, एआइ अगुरुलहुआई ॥ ४१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy