________________
तेआभासादव्वाण, अन्तरा इत्थ लहइ पट्टवओ ।
गुरुलहुअअगुरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥ ३८ ॥ तैजसभाषाद्रव्याणां अन्तरात्र प्रस्थापकोऽवधिज्ञानारंभकः कोऽपि तैजसद्रव्यासन्नं तदयोग्यं गुरुलघद्रव्यं लमेत, अयोग्यता च तैजसद्रव्येभ्यस्तस्य बहुपरमाणुत्वात् कोऽपि भाषाद्रव्यासन्नं तदयोग्यं अगुरुलघुद्रव्यं लभेत पश्येत, अत्राऽयोग्यत्वं भाषाद्रव्येभ्योऽस्याल्पाणुत्वात् जात्येकवचनं, तत्र गुरुलधुपयायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं अगुरुलघु । सावधिश्चेत् प्रतिपाती तदा तेनैवोक्तद्रव्येणोपलब्धेन निष्ठां याति प्रतिपतति ॥ ३८ ॥ अधिकाराद् वर्गणा आह 'ओरा'--
ओरालविउठवाहार-तेअभासाणपाणमणकम्मे ।
अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ ३९ ॥ सजातीयवस्तुराशिर्वर्गणा सा द्रव्यादिभेदाच्चतुर्धा । तत्र द्रव्यतः सर्वलोकवर्तिनामेकाणूनामेका वर्गणा, व्यणुकानामेका, एवमेकैकाणुवृद्ध्या संख्याताणूनां संख्याता असंख्याताणूनां असंख्याता, असंख्यातस्यासंख्यभेदत्वात् , अनन्ताणूनां अनन्ता | अग्रहण्योग्या उल्लंघ्य तादृकपरिणामोपेता औदारिकारे अनन्तास्ताश्चोल्लंघ्याणुवृद्ध्या अनन्तास्तस्यानीं बहुद्रव्यत्वात् सूक्ष्म
Jain Education Inter
For Private & Personal Use Only
I www.jainelibrary.org