SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ २१ ॥ Jain Education Inter काले चण्ह वुड्डी, कालो भइयव्वु खित्तवुडीए । बुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला उ ॥ ३६ ॥ अवधेः काले वृद्धौ चतुर्णामिति द्रव्यक्षेत्र कालभावानां वृद्धिः । तत्र द्रव्यं पुद्गलास्तिकायः १ क्षेत्र आकाशं २ भावा वर्णगन्धादि पर्यायाः । क्षेत्रवृद्धौ कालो भाज्यः, बहुक्षेत्रवृद्धौ वर्धते नान्यथा यतः क्षेत्रायामप्रदेशादिवृद्धौ कालोऽप्यसमयं चेद्वर्धते ततोऽङ्गुलाऽसंख्येय भाग मात्र क्षेत्र वृद्धावपि कालतोऽसंख्योत्सपिण्यवसर्पिण्यो वर्देरन् न चैतदिष्टं तत इत्थं उक्तं, द्रव्यपर्यायौ तु वर्धेते, द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भाज्या, द्रव्यवृद्धौ पर्यायवृद्धिः स्यादेव पर्यायवृद्धौ द्रव्यवृद्धिर्भाज्या ॥ ३६ ॥ यतः 'सुहु' सुमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं । अगुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा ॥ ३७ ॥ कालः सूक्ष्मः निमेषमात्रेऽप्यसंख्य समयत्वात् ततः सूक्ष्मतरं क्षेत्रं स्यात्, यतोऽङ्गुलमात्रे एकैकनभः प्रदेशश्रेणिरूपे क्षेत्रे प्रतिप्रदेशं समयगणनयाऽसंख्या अवसर्पिण्यः स्युः । स्थापना । क्षेत्राद् द्रव्यं सूक्ष्मं, एकैकप्रदेशोऽनन्ताणुस्कन्धस्थितेः, द्रव्याच्च पर्यायः, प्रतिद्रव्यं पर्यायानन्त्यात् ॥ ३७ ॥ अथोत्पद्यमानोऽवधिर्यानि द्रव्याण्यादौ पश्येद्येषु च द्रव्येषु प्रति - पतेत् तान्याह ' तेआ ' -- For Private & Personal Use Only अवधेः कालद्वारम् । ॥ २१ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy