________________
च क्षायोपशमिकः, परिणाम एव पारिणामिकः, संनिपातो व्यादिभावानां संयोगस्तत्र भवः सांनिपातिकः, स चौघतोऽनेकभेदो। भावलोके ज्ञेयोऽविरुद्धास्तु १५ मेदाः, उक्तं च-ओदइअखओवसमे परिणामेक्केको गइचउक्केऽवि । खयजोगेण वि चउरो तदभावे
भङ्गाः ॥ उवसमेणंपि । १। उवसमसेढी एक्को केवलिणोवि य तहेव सिद्धस्स । अविरुद्धसंनिवाइय मेदा एमेव पन्नरस । २।' अनयोयाख्या-औदयिका, वायोपशमिकः, पारिणामिक इत्येवं भावत्रयीरूप एकको भङ्गो गतिचतुष्केपि चिन्त्यः, यथानारकाणामौदयिको भावो नरकगत्यादिः, क्षायोपशमिकस्तु पञ्चेन्द्रियतादि, पारिणामिकस्तु जीवत्वादिरेवं भावत्रयगतो नरकगतो भङ्गः १, एवं शेषगतिष्वपि, ततो भङ्गाः ४ जाताः, तथैव एवं भावत्रयकृताः चत्वारो भङ्गाः, क्षायिकभावयोगे भावचतुष्के सिद्धाः ४ भङ्गाः स्युः, क्षायिकभाववतां क्षायिकसम्यग्दृष्टीनां सर्वगतिष्वपि सम्भवात , एवं पूर्वभङ्गाः ८, तदभाव क्षायिकाभावे औपशमिकेनापि भङ्गाः ४ प्राप्याः, आदावेव सम्यक्त्वाप्तौ चतर्गतिष्वपि औपशमिकभावभावात एवं १२ मेदाः । तथा दर्शनसप्तकं क्षपयित्वोपशमश्रेणी कुर्वत औदयिकादिपञ्चभावकृतो भङ्गः १ स्यात् , केवलिनस्त्वौदयिकक्षायिकपारिणामिकैः ३ || भावः कृतः क्षायोपशमिकस्तस्य नास्त्यतीन्द्रियाः केवलिन इत्युक्तेः, सिद्धस्यापि क्षायिकपारिणामिकभावकृतः १, इति सर्वे भङ्गाः १५ अविरुद्धसांनिपातिकस्य, तत्र द्वियोगे १ त्रियोगे ५ चतयोंगे ८ पञ्चयोगे १ । विरुद्धसांनिपातिकमेदाः २६ स्युः यथा-औदयिकादिभावपश्चकस्य द्विकसंयोगे १०, त्रिकसंयोगेऽपि १० चतुष्कयोगे ५, पञ्चयोगे १ एते २६ विरुद्धा उच्यन्ते, केषाश्चित प्राप्यत्वेन शेषाणामप्राप्यत्वेन च विरुद्धत्वात । तेषु षण्णामेव विस्तारितानां प्रस्तुताः १५ उक्तरीत्याऽऽप्यत्वादविरुद्धाः, तत उक्तं-'अविरुद्धसंनिवाइय, त्ति एकैको भावः सर्वभावाभावश्च जीवानां न भवत्येव । स्थापना
Jain Education Internet
For Private & Personal Use Only
W
ww.jainelibrary.org