________________
Jain Education Internal
स्त्रिभिर्द्वितीयो मूलमेदः २ | न करोति न कारयति कुर्वन्तं नानु० मनसा १, एवं वाचा २, एवं कायेन ३, एष त्रिधा तृतीयो मूलभेदः ३ । तथा 'दुविहं तिविहेणं' एष भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा कायेन १, एवं न करोति कुर्व्वन्तं नानु० २, एवं न कारयति कुर्व्वन्तं नानुजा० मनसा वाचा कायेनेति तुर्यो मूलभेदः ४ । अथ 'दुविहं दुविणे 'ति भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा १, एवं न करोति कुर्व्वन्तं नानुजानाति २, न कारयति कुर्व्वन्तं नानु० ३, एते ३ भङ्गाः मनोवाग्भ्यां लब्धाः, एवमेव मनः कायाभ्यां ३, तथा मनोवाग्भ्यां ३, एवं भङ्गाः ९, पञ्चमो नवधा मूलभेदः ५ । अथ 'दुविहं एगविहेणं 'ति भङ्गः, न करोति न कारयति मनसा १, एवं न करोति कुर्व्वन्तं नानुजानाति २ न कारयति कुर्व्वन्तं नानु० ३, एवं ३ भङ्गा मनसा लब्धाः एवं वाचा त्रयं, कायेनापि त्रयं, जाताः ९, षष्ठो नवधा मूलभेदः ६ । अथ ' एगविहं तिविहेणं ' भङ्गाः न करोति मनोवाक्कायैः १ एवं न कारयति २, कुर्व्वन्तं नानुजा० मनोवाक्कायैः ३, एप त्रिधा सप्तमो भेदः ७ । अथ 'एगविहं दुविहेणं' भङ्गः, न करोति मनोवाग्भ्यां १, एवं मनः कायाभ्यां २, एवं वाक्कायाभ्यां ३, न करोतीति पदेन यथा भङ्गा ३, तथा न कारयतीति पदेनापि ३, कुर्व्वन्तं नानुजानाति अत्रापि ३, एवं भङ्गाः ९, अष्टमो नवधा भेदः । अथ 'एगविहं एगविहेणं 'ति भङ्गः, न करोति मनसा १, एवं न कारयति २, कुर्व्वन्तं नानु० ३, एवं वाचापि ३, कायेनापि ३, एवं (नवधा) नवमो मेदः ९ । अत्राद्ये भङ्गे एको भेदः १, द्वितीयतृतीयतुर्येषु प्रत्येकं भङ्गत्रयं पञ्चमषष्ठयोर्नव नव, सप्तमे त्रिकं, अष्टमनवमयोर्नव नवेति, भङ्गाः सर्वे मीलिता : ४९, अतीतं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामीति कालत्रयगुणिताः १४७ भङ्गाः, उक्तं च-' लद्धफलमाणमेयं भंगाओ भवंति अउण
For Private & Personal Use Only
सावध योगप्रत्या
ख्यान
भेदाः ॥
www.jainelibrary.org