SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ २० ॥ Jain Education Internat 'जति यावत् क्षेत्र नभो भृतवन्तः सार्वदिकं कोऽर्थः नृबाहुल्यात् प्रायो ऽजितार्हत्काले घना बादाग्निजीवाः स्युः, सूक्ष्माचोत्कृष्टपदिनस्तत्रैव मील्यन्तेऽतस्ते सूक्ष्मा बादराग्निजीवा असंख्याकाशप्रदेशरूपस्वावगाहनया पंक्त्यैकैकशः स्थापनात् श्रेणीं कृत्वा, द्यधमत परितः सर्वदिक्षु भ्राम्यते, ततः सा अलोके लोकमात्राण्यऽसंख्यखण्डानि व्यामोति, एतावत् परमावधिक्षेत्रं, न ह्यलोके दृश्यं द्रव्यमस्ति, परमेतावच्छक्तिमान् परमावधिः क्षेत्रमाश्रित्य निर्दिष्टः, स चान्तर्मुहूर्तं स्यात् ततः केवलज्ञानं जायते ॥ ३१ ॥ क्षायोपशमिकमध्यमावविक्षेत्रकालावाह 'अड्ड' अङ्गुलमावलियाणं, भागमसांखज्ज दोसु संखिज्जा । अङ्गुलमावलिअंतो, आवलिआ अङ्गुलपुहुत्तं ॥ ३२ ॥ अङ्गुलावलिकयोर्भागमसंख्यं द्वयोस्तु संख्येयं कोऽर्थः क्षेत्रतोऽङ्गुलस्यासंख्यं संख्येयं भागं पश्यन्, कालत आवलिकाया अप्यतीतं एष्यं वा असंख्यं संख्येयं भागं पश्येत्, क्षेत्रकालावमूर्ती नावधेर्विषयः किन्तु तत्तत्स्थानि द्रव्याण्येव पश्यति । अङ्गुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं अवध्यधिकारादुत्सेधांगुलं वा पश्यन्नावलिकाया अन्तर्मध्ये ऊनावलिकां जानातीत्यर्थः, इहोत्सेधाङलसहस्रेणैकं प्रमाणाङ्गुलं इति भाष्यं विशेषावश्यकम् । आवलिकां पश्यनङ्गुलपृथक्त्वं पृथक्त्वं हि द्विप्रभृत्यानवभ्यः । इह मुहूर्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ३७७३ आनपानाः, एकैकस्मिन्नानपाने साधिकार्धाः सप्तदश क्षुल्लकभवाः, एकै क्षुल्लकभवे षट्पश्चाशदधिकद्विशतमाना आवलिका इति ॥ ३२ ॥ ' हत्थं ' - For Private & Personal Use Only | क्षायोपशमिकावधेः क्षेत्रद्वारम् । ॥ २० ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy