________________
च सद्भावात् ७ इह भावावधिनाधिकारः । 'ओहिस्सा' अवधेः प्राकृतत्वादाकारः ॥ २९ ॥ उक्तमवधिद्वारं, अथ क्षायोपशमिकावधेः क्षेत्रप्रमाणद्वारम् 'जाव'
जावइया तिसमया-हारगस्स सुहुमस्स पणगजीवस्स ।
ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु ॥ ३० ॥ इहाऽयं संप्रदायः-' योजनसहस्रमत्स्यः प्रथमे समये समस्य यो दैयं । प्रतरोऽङ्गपृथुरसंख्याङ्गुलांशपिण्डो भवेत् । द्वितीये तं ॥१॥ संक्षिप्य प्रतरपिण्डा सूच्यऽङ्गप्रथायता तृतीये । तां संक्षिप्य मृतः पनकः स्वाङ्गेऽसंख्याङ्गुलांशः स्यात्
॥२॥ स्थापना। स उत्पत्तेरनु त्रीन् समयानाहारं करोतीति त्रिसमयाहारकः, सूक्ष्मनामकर्मोदयात् सूक्ष्मः स आयद्वितीय| समयोरतिसूक्ष्मत्वाच्चतुर्थादिष्वतिस्थूरत्वादयोग्यः, पनको वनस्पतिभेदः तस्य यावती अवगाहना देहः जघन्याऽल्पाऽन्यत्रिसामायिकसूक्ष्मपनकम्यः यतोऽस्यैव मत्स्यस्यैवंमृत्वाऽविग्रहेण स्वाङ्गोत्पन्नस्य सूक्ष्मो देहः अन्यत्रोत्पत्तौ जीवप्रदेशविस्तारे देहवृद्धेः न सूक्ष्मो देहः । 'ओही'त्यादि जघन्यमवधिक्षेत्रं एतावन्मात्रं स्यात् । इह सूक्ष्मपनकोऽनन्तकायो ज्ञेया, तदेह एकजीवनिष्पादितो अनंतजीवाश्रितः स्यात् । एवं पनकाः सूक्ष्मा असंख्या अपि बादरपनकाश्रये घटन्ते ॥ ३० ॥ 'सब| सव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निद्दिट्ठो॥३१॥
१ संहृत्य.
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org