________________
आवश्यक नियुक्ति दीपिका॥
अवधिज्ञानद्वारम् ॥
॥१९॥
स्यात् , नामावधिः कस्यापि जीवस्याजीवस्य वाऽवधिरिति नाम स्याद्यथा मर्यादायाः १ स्थापनावधिरक्षादिष्विदं अवधिज्ञानं इति स्थापना, यतः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥१॥ यद्वस्तु तदर्थवियुक्तं मुख्यतस्तद्भावरहितं तदभिप्रायेण मुख्याभिप्रायेण स्थापितं आकृतिशून्यं अक्षादि, 'यच्च तत्करणि' तदाकारयुक्तं, किं तत् 'लेप्यादिकर्म' तदल्पकालं स्यात् यावद्र्व्यभावि च, तत् स्थापना उच्यते २ द्रव्यावधिविधा आगमतो नोआगमतश्च, तत्रागमः श्रुतज्ञानं तं आश्रित्य द्रव्यावधिरवधिशब्दार्थाध्ययनज्ञानपाठनादिकृत् तत्र चाऽनुपयुक्तो, 'अनुपयोगो द्रव्यमिति वचनात् , नोआगमतः श्रुताभावमाश्रित्य त्रिधा द्रव्यावधिः, ज्ञशरीरद्रव्यावधि १ भव्यशरीरद्रव्यावधि २ | तद्व्यतिरिक्तद्रव्यावधि ३ भेदात् , तत्राद्योऽवधिशब्दार्थज्ञस्याजीवो देहः द्वितीयो येनावधिशब्दार्थ ज्ञास्यति स देहः । तृतीयो यदवधिना द्रव्यं वेत्ति, यच्च देहादि अवधेः सहकारिकारणं तदुक्तं, 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । | तद्रव्यं तत्त्वज्ञैः सचेतनाऽचेतनं गदितं ॥१।। भावस्येति परिणामस्य ३ क्षेत्रकालावधी यत्र क्षेत्रे काले वाऽवधिर्जायते वर्ण्यते
वा तौ ५ भवावधिदेवादेः ६ भावावधिविधाऽऽगमतोनोआगमतश्च । आगमतोऽवधिशब्दार्थज्ञाता तत्र चोपयुक्तः तदुक्तं, | 'भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥१॥ विवक्षिता साधयितुं वाञ्छिता क्रिया तस्या अनुभवयुक्त इन्द्रादिवत् । नोआगमतो भावावधिरवधिज्ञानं, नोशब्दो निषेधै १कदेश मिश्राथोऽस्ति अत्र तु निषेधार्थो ज्ञेयः। भावनन्दिभावमङ्गलादौ तु मिश्रार्थों ज्ञेयः । तत्राऽऽगमस्य तद्व्यतिरिक्तज्ञानचतुष्कस्य
१. देहेन. .
ANI
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org