________________
अवधिर्नामादिमेदः १ तस्य क्षेत्रपरिमाणं २ संस्थानं ३ प्राकृते प्रथमान्तः एकारान्तः स्यात् , स चानुगामिक: सभेदः, ४ अवस्थितः क्षेत्रादिषु कियत्कालमेव स्थितः ५ वृद्धिहानिभ्यां चलः ६ तीव्रो मन्दो मध्यमोऽपि ७ तस्य प्रतिपातोत्पादौ ८ ॥ २७ ॥ 'नाण'
१३.१४ नाणदंसणविन्भंगे. देसे खित्ते गई इअ । इड्डीपत्ताणुओगे य, एमेआ पडिवत्तीओ ॥२८॥
ज्ञान ९ दर्शन १० विभङ्गाः ११ देशे देशतः सर्वतश्च १२ क्षेत्रं सम्बद्धादि १३ गतिरिति तस्य गत्यादिद्वाराणि १४ प्राप्तर्झनामानुयोगो व्याख्या, प्राकृतत्वात् शब्दव्यत्ययः, एवमेताः प्रतिपत्तयो युक्तयो वाच्याः॥२८॥अवधिद्वारमाह 'नाम'
नामं ठवणादविए, खित्ते काले भवे य भावे य ।।
___ एसो खलु निक्लेवो, ओहिस्सा होइ सत्तविहो ॥ २९ ॥ नामादिषु सर्वविभक्त्यन्तेष्ववधिशब्दो योज्यते, तत्र 'यद्वस्तुनोऽभिधानं स्थितमन्याथै तदर्थनिरपेक्षं । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा' ॥१॥ यद्वस्तुनोऽभिधानं नाम अन्यार्थेऽन्यस्मिन्नर्थे स्थितमपि तदर्थनिरपेक्षं तेनार्थन रहितं, यश्चार्थो नाम्नोऽस्ति तस्य पर्याय भिधीयते इति पर्यायानभिधेयं, तन्नामोच्यते, नामनामवतोरभेदोपचारान्नामवस्त्वेव नाम्ना ज्ञेयं । तथान्यत्राऽवर्तमानमपि यादृच्छिकं यदृच्छयोत्पन्नं डित्थादिवत्स्यात् , च शब्दाद्यावद् द्रव्यमावि च नाम
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org