________________
नयत इति द्वारे अभिव्याहारद्वारम् ।।
उदेति तत्सन्ध्यागतं अर्कभाच्चतुर्दशं पंचदशं वा, रवेभं रविगतं, पूर्वद्वारिकेषु शुभेषु पूर्वदिशा गन्तव्ये अपरया यातो विड्वेरं, क्रूरग्रहाश्रितं सग्रहं । रविणा भुक्त्वा मुक्तं विलंबि, यत्र भे ग्रहणं जातं तद्राहुहतं, ग्रहविदारितं ग्रहभिन्नं । 'अत्थवणे संझागय रविगय जहियं ठिओ य आइच्चो । विड्डेरमवद्दारि य सग्गह कूरग्गहठियं तु । १।' आइच्चपिट्टिओ जं विलंबि राहुहयं तु जहिं गहणं । मज्झे गहो जस्स गच्छइ तं होइ गहभिन्नं । २।' स्पष्टार्थे गाथे ' संझागयंमि कलहो आइञ्चगए य होयनिव्वाणी । विहरे परविजओ सग्गहमि य विग्गहो होइ । १॥' आदित्यगते भेऽनिर्वाणी अनिवृतिवान् भवति । 'दोसो असकजन्तु होइ कुभत्तं विलंबिनक्खत्ते । राहुहयंमि य मरणं गहभिन्ने सोणिओग्गालो । १।' दोषः अशक्तजन्तुः कुभक्तं च भवति, शोणितो
द्गालो रक्तप्रवाहः । उक्ता ऋक्षसम्पत् द्वा०६। अथ गुणसम्पत् 'पियधम्मे 'त्यादि, प्रियधर्मादिगुणसम्पत्सु सतीषु तत् HI सामायिकं दातव्यं भवति । 'पियधम्मो दढधम्मो संविग्गोऽवजमीरु असढो य । खंतो दंतो गुत्तो थिरव्यय जिइंदियो
उज्जू । १।' प्रियो धर्मो यस्य सः, संविनो मोक्षोत्कण्ठितः, अवद्यमीरः, क्षान्तः, दान्तः, ऋजुः, उक्ता गुणसम्पत् , द्वा०७ ॥१८१ । 'अभि'
अभिवाहारो कालिअ-सुअंमि सुत्तत्थतदुभएणं ति। दवगुणपज्जवेहि अ, दिट्ठीवायंमि बोद्धबो॥१८२॥| ____ अभिव्याहारः शिष्यगुर्वोचनप्रतिवचनरूपः, स च कालिकश्रुते आचारादौ सूत्रतोऽर्थतस्तदुभयतश्चेति । यथा शिष्येण 'इच्छाकारेणेदमङ्गाधुद्दिशते 'त्युक्ते, गुरुवाक्, उद्दिसामो खमासमणाणं हत्थेणं, इत्यादि, अहमिदं उदिशामि वाचयामीत्यर्थः क्षमाश्रमणानां हस्तेनेति आप्तोपदेशेन न तु स्वबुद्ध्या, सूत्रतोऽर्थतस्तदुभयतश्च । दृष्टिवादे तु सोऽभिव्याहारो द्रव्यगुणपर्यायै
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org