SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern द्वारं चिन्त्यं, गहनैर्न भाव्यं । भाष्यं ' पव ' पव्वज्जाए जुग्गं, तावइ आलोअणा गिहत्थेसुं । उवसंपयाइ साहूसु, सुत्ते अत्थे तदुभए अ ॥ १७९ ॥ प्रव्रज्याया यद्योग्यं प्राणिजातं पुंस्त्रीक्लीवभेदं तदन्वेषणीयं । तावत्यालोचना अवलोकना वा गृहस्थेषु कार्या यथा द्रव्यतो नक्कीबादिः, क्षेत्रतो नानार्यक्षेत्रजः, कालतः शीतोष्णादिना न क्लाम्यति, भावतो नीरोगानलसादिः । एवमालोचनाया योग्यतानिर्णयादनु सर्वसामायिकं दद्यान्न शेषाणां निषिद्धदीक्षाणामिति नयः, एवं गृहस्थेपूक्तं । साधुषु पुनः सामायिकस्य सूत्रेऽर्थे तदुभये चोपसम्पदि आलोचना स्यात् । इह यदा कोऽपि नवदीक्षित एव ग्लानत्वादिहेतुनाऽनधीतसामायिको विस्मृतसामायिको वा स्वगुर्वभावेऽन्यत्र सामायिकसूत्रार्थाद्युपसम्पद्यते तदाऽसावालोचनां दत्ते, अत्र विधिः सामाचार्यामुक्त एव, स च यावन्मात्रं सूत्रं जानाति तावतैव प्रतिक्रमणादि कुर्यादेवमपि स चारित्रपरिणामोपेतत्वाद्यतिरेव ॥ १७९ ॥ गतमालोचनाद्वा० १ । अथ विनीतस्येति ' आलो ' आलोइए विणीअस्स, दिजए तं पसत्थखित्तंमि । अभिगिज्झ दो दिसाओ, चरंतिअं वा जहाकमसो ॥ आलोचिते सति विनीतस्य गुर्वद्विधावनाद्यनुरागवतस्तद्दीयते । भाष्यं - 'अणुरत्तो भत्तिगओ, अमुई अणुयत्तओ विसेसन्नू । उज्जुतगऽपरितंतो इच्छियमत्थं लहइ साहू । १।' भक्तिगतो भक्तिस्थितः, अमोची ताडितोऽपि गुरुपार्श्वामोचको, अनुवर्त्तको गुरुचित्तानुवर्त्तनाशीलः, विशेषज्ञः प्रस्ताववेत्ता, उद्युक्तः उद्यमपरः, अपरितान्तोऽनिर्विण्णः । गतं विनीतद्वा० २ । अथ क्षेत्रद्वा० For Private & Personal Use Only सामायिककरणे नयत इति द्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy