SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ दीपिका ॥ सामायिककरणे कृताकृतादीनि त्रीणि द्वाराणि ॥ बावश्यक नन्वेतत्सामायिकं अस्याः क्रियायाः प्राक क्षणे किं कृतं सक्रियते उताकृतं ? आद्यपक्षे सद्भावादेव करणानुपपत्तिः, नियुक्ति द्वितीये तु वान्ध्येयादेरिव करणायोगः पूर्वमेकान्तेनासत्वादिति शिष्यप्रश्नमाशङ्कयोत्तरमाह-कृताकृतं सामायिकं, कृतं च अकृतं चेति कृताकृतं, अत्र नयमतभेदेन भावना कार्या १, तथा केन कृतं २, केषु द्रव्येषु क्रियते ३, कदा वा कारकोऽस्य ४, नयनः इति केनालोचनादिन्यायेन ५, करणं कतिविधं ६, कथं लभ्यते ? इति द्वाराणि ॥१०३४ ॥ ॥२०५॥ अत्र भाष्यकृत्क्रमेणाह ' उप्प' उप्पन्नाणुप्पन्नं,कयाकयं इत्थ जह नमुक्कारे (दा०१)। केणंति अत्थओतं, जिणेहिं सुत्तं गणहरोहिं(दा०२)॥ ____ कृताकृतं उत्पन्नानुत्पन्नं क्रियते द्रव्यपर्यायोभयरूपत्वात् । पर्यायतयोत्पन्नं द्रव्यतयाऽनुत्पन्नमित्यर्थः । अत्र च यथा | प्राग्नमस्कारे नयैर्भावना कृता तथा कार्या १ । 'केने 'ति केन कृतमिति द्वारेऽर्थतोऽर्थमाश्रित्य जिनवरैः, सूत्रं त्वाश्रित्य गणधरैः कृतं, व्यवहारतस्त्वेवं, निश्चयतस्तु तत्स्वामिना कृतमिति । 'नणु निग्गमे गयं चिय केण कयं तंति का पुणो पुच्छा । भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ।१।' ननु 'उद्देसे निदेसे निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने श्रीवीरात्तन्निर्गतमित्यादिकथनेन केन कृतं तदित्येतद्गतमेव पुनरपीह का पृच्छा? भण्यते-स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्ता, इह त्वयं विशेषो यदन्तरङ्गः कर्ता जिज्ञासितः, स च सामायिकानुष्ठाता साध्वादिः द्वा०२॥ १७५ ॥ 'तं के' El तं केसु कीरई तत्थ, नेगमो भणइ इट्ठदवेसुं । सेसाण सवदत्वेसु, पजवेसुं न सवेसुं (दा०३) १७६ ॥ ॥२०५|| Jain Education Intel For Private & Personal use only www.jainelibrary.org Lal
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy