SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ वैक्रिये संघातादि कालमानम् ॥ तिचीसमिहागयस्स तइयंमि । समए संघाययओ, नेयाई समयकुसलेहिं । २।' उभयस्यैकदा भृत्वा पुनर्भावे जघन्यं अन्तरं एकसमयो निर्विग्रहेण संघाते स्यात् , कोऽर्थः- यदौदारिकदेही चरमसमये संघातशाट कृत्वा मृत्वा विग्रहं विनैवोत्पद्यौदारिकसंघातं कृत्वा पुनरपि तदुभयमारभते तदैकसमय इति । तथा परमं उत्कृष्ट अन्तरं सत्रिसमयानि ३३ सागराणि, तानि च मनुजस्याविग्रहेण देवादिष्वित्यनुत्तरसुरेषु सप्तमभूनारकेषु च ३३ सागराण्यनुभूय विग्रहगत्या इहागतस्य तृतीयसमये संघातयत औदारिकसंघातं कुर्वतः ॥१६६ ।। उक्ता औदारिकमाश्रित्य संघातादिवाच्यता । अथ वैक्रियमाश्रित्योच्यते 'वेउ' वेउविअसंघाओ, जहन्नु समओ उ दुसमउक्कोसो। साडो पुण समयं चिअ, विउवणाए विणिट्ठिो॥ वैक्रियसर्वसंघातो जघन्यः समयः स्यात् । तुरेवार्थः । भाष्यं-'वेउब्धियसंघातो, समओ सो पुण विउव्वणादीए । ओरालियाणमहवा, देवाईणादिगहणंमि ।१।' वैक्रियसंघातः समय इत्येकसमयमानः स्यात , स पुनः औदारिकानां औदारिक| देहानां वैक्रियलब्धिमतां विकुर्वणादौ विकुर्वणाया आदिसमये स्यात् , अथवा देवादीनां देवनारकाणां आदिग्रहणे प्रथमे सर्वसंघातसमये इति । ' उक्कोसो समयदुर्ग, जो समयविउविओ मओ बिइए। समये सुरेसु वच्चइ, निविगहओ | तयं तस्स । २।' उत्कृष्टो वैक्रियः समुद्घातः समयद्विकं स्यात ? कथं इह य औदारिकदेही समयविकुचिक इति लब्ध्या वैक्रियमारभमाणः समयमेकं वैक्रियसंघातं कृत्वा द्वितीयसमये मृतो निर्विग्रहतो विग्रहगति विना सुरेषु व्रजति । ततः वैक्रियसंघातसमयद्वयं तस्य स्यात् , यतस्तत्रोत्पद्य पुनक्रियसंघातं कुर्यात् । अथ नियुक्तिगाथोत्तरार्द्ध 'साडो पुणे 'त्यादि, शाटः पुनर्जघन्य उत्कृष्टश्च समयं चैव वैक्रियविकुर्वणायां निर्दिष्टोऽर्हदायैः ।। १६७ ॥ ' संघा' www.jainelibrary.org For Private & Personal Use Only Jain Education inte
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy