________________
काल
तत उत्कृष्टः संघातशाटकालः संघातसमयोनः स्यात् , उक्तं च 'उक्कोसो समऊणो, जो सो संघायणा समयहीणो' यत औदारिके उत्कृष्ट उभयकरणकालः स संघातनासमयहीनः । शिष्यः 'किह न दुसमयविहीणो साडणसमयेऽवणीयंमि।१।' संघा- IN संघातादितसमयवत् शाटनसमयेऽपनीते प्रागुक्तः कालो द्विसमयहीनः कथं न स्यात् ? गुरुः ‘भन्नइ भवचरमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमओ तणो न कालोति ।२।' भण्यते त्रिपल्यमानभवस्य चरमेऽपि समये संघातशाटना
मानम् ॥ चैवेति संघातशाटरूपमुभयमेव स्यात् , यत्केवलत्रिपल्यायुभवदेहायुःपुद्गलत्यागरूपं शाटनं तत्परभवप्रथमसमये ज्ञेयमतो न तनः संघातशाटस्य काल इति । शिष्यः 'जइ परपढमे साडो, निविग्गहओ य तम्मि संघाओ। नणु सव्वसाडसंघायणाओ समये विरुद्धाओ।३।' यदि 'परे'ति त्रिपल्यभवादग्रेतनभवस्य प्रथमे समये शाटः स्वीक्रियते, तर्हि यदा कश्चिजीवो निर्विग्रहतो विग्रहमकृत्वा ऋजुश्रेण्यवोत्पद्यते तदा च तस्मिन्नेव समये नवदेहपुरलानां संघातः स्यात, ततो ननु निश्चितं सर्वे च ते शाटसंघातने च सर्वशाटसंघातने 'समये' इत्येकसमये विरुद्ध सर्वशाटस्य प्राग्भवदेहसम्बन्धित्वात , सर्वसंघातस्य च भवान्तरगतदेहविषयवाद्भवद्वयदेहयोश्च युगपत्सवस्य विरुद्धत्वादिति । गुरुः 'जम्हा वि गच्छमाणं विगयं उप्पजमाणमुप्पन्नं । तो परभवादिसमये मोक्खादाणाणमविरोहो । ४।' यस्मात्प्राग्भवशरीरं च गच्छत् विगतमेव, उत्पद्यमानं त्वग्रेतनभवशरीरं उत्पन्नमेव क्रियाकालनिष्ठाकालयोरभेदात, यदि च प्रारम्भसमयादारभ्य क्रियानिष्पन्नतां नावहेत्तदा कथमन्त्यसमये निष्पबतेति । ततः परभवादिसमये मोक्षदानयोः सर्वशाटसंघातयोन विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनदेहस्य सद्भावात् । अपि च मरणसमयः परभवाद्यसमयत्वेन स्वीकार्य एवान्यथा दोषसम्भव इत्याह-'चुइसमये नेहभवो इहदेहविमो
Jain Education
www.
jainelibrary.org
For Private & Personal Use Only
a la