SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥ प्रयोगकरणे NI विधा जीवप्रयोगकरणम् ॥ ॥१९८॥ आद्यानां त्रयाणां देहानां । तैजसकार्मणयोः संघाटशाटः १ शाटनं वा २ न तु संघातोऽनादित्वात् ॥१६२॥ अथौदारिकमाश्रित्य संघातादिकालमानं वक्ति ' संघा' संघायमेगसमयं, तहेव परिसाडणं उरालंमि । संघायणपरिसाडण, खुड्डागभवं तिसमऊणं ॥१६३॥ संघातमिति सर्वसंघातकरणमेकसमयं भवत्येकान्ताऽऽदानस्यैकसामायिकत्वात् , यथाऽपूप आद्यसमये स्नेहस्याऽऽदानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु त्वादानत्यागौ तादृशसामर्थ्यवत्वात, पुद्गलानां च संघातभेदधर्मत्वात् । एवं जीवोऽप्युत्पद्यमान आद्यसमये औदारिकादिद्रव्याणामादानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु तु ग्रहणमोक्षौ । अतः संघातमेकसमयमित्युक्तं । तथैव परिशाटनाकरणमेकसमयं स्यात् , औदारिकदेहे संघातपरिशाटनकरणं तु त्रिसमयोनक्षुल्लकभवः स्यात् , यतोऽत्र जघन्यकालः प्ररूपयितुमिष्टस्तेन विग्रहोत्पन्न इह गृह्यते । ततश्च द्वौ विग्रहसमयौ एक संघातसमय इति त्रिसमयोनं क्षुल्लकभवं । उक्तं च 'दो विग्गहमि समया, तइओ संघायणाए तेहूणं । खुड्डागभवग्गहणं सवजहन्नो ठिईकालो।१। 'तेह्रणं' तैरूनं । इह सर्वजघन्यायुः क्षुल्लकभव एव ॥ १६३ ॥'एयं' एयं जहन्नमुक्कोसयं, तु पलिअत्तिअंतु समऊणं। विरहो अंतरकालो, ओराले तस्सिमो होइ॥१६४॥ ___ इदं जघन्यं उभयकरणकालमानं । उत्कृष्टं तु संघातशाटकरणकालमानं औदारिके पल्यत्रिकं समयोनं, इहोत्कृष्टकालस्य वाच्यत्वादयमविग्रहेणैव, इहभवदेहशाटं कृत्वा परभवायुषत्रिपल्यमानकालस्याद्यसमये संघातं कुर्याद् , द्वितीयादिषु संघातशादं, ॥१९८॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy