________________
P
आवश्यक नियुक्तिदीपिका ॥
सूत्रस्पर्शनियुक्तिः॥
॥१९५॥
इदं सूत्रं सूत्रानुगमे एवावसरप्राप्तेऽस्खलितादिगुणोपेतमुच्चार्य । अस्य व्याख्या, व्याख्याया लक्षणं चेदं “संहिता च १ पदं चैव २ पदार्थः ३ पदविग्रहः४। चालना ५ प्रत्यवस्थानं ६ व्याख्या तंत्रस्य षड्विधा ॥१॥" अस्खलितपदोच्चारणं संहिता यथा-करेमि भंते ! सामाइयं इत्यादि वोसिरामि १। पदं नामिकादि पञ्चधा, यद्वा स्याद्यन्तं त्याद्यन्तमिति द्विधा, यथाकरोमि भयांत ! सामायिकमित्यादि । तत्र करोमि आख्यातिकं १ भयांत नामिकं । सामायिकादीन्यप्येवं नामिकादिपदेषु स्वयं ज्ञेयानि २। पदार्थः कारक १ समास २ तद्धित ३ निरुक्तिविषयश्चतुर्दा, क्रमात् पचतीति पाचकः १, राज्ञो नरो राजनरः, २, दक्षस्यापत्यं दाक्षिः ३, भ्रमति रौति च भ्रमरः ४ इति, एवं अत्र करोमीति पदस्यार्थः कारकविषयः, भयांतः समासविषयः । समस्य रत्नत्रयस्यायः समायः। समाय एव सामायिक इति समासतद्धितयोर्विषयः । सावधं समासविषयः । युज्यते । जीवः कर्मणाऽनेनेति योगः तं कारकविषयः, प्रत्याख्यामीत्यपि, याति कालाद्यतिक्रमं इति यावत् अव्ययं, कारकविषयः, जीवनं जीवा इत्यपि तया यावजीवया, तिस्रो विधाः प्रकाराः अस्येति त्रिविधं त्रिविधेन समासविषयः, मन्यते जानात्यनेन छगस्थ इति मनः तेन मनसा, उच्यतेऽनयेति वाक् तया, चीयते आहारेणेति कायस्तेन, न करोमि न कारयामि कुर्वन्तमप्यन्यं नानुजानामि । तस्य भयांत प्रतिक्रमामि निन्दामि गर्हामि । अतति भवान्तरमित्यात्मा तं व्युत्सृजामि । मन आदिषु कारकविषयः पदार्थो ज्ञेयः। अथ संक्षेपेणार्थः हे भदन्त ! हे भगवन् ! हे भयान्त ! संसारभयान्तकर गुरो! अहं सामायिकं, समभावं | करोमि अभ्युपगच्छामि आत्मानं सामायिकपरिणामपरिणतं करोमि । कथं इत्याह-सर्व निःशेष, सह अवद्येन वर्तते इति सावद्यः, तं सावधं योग व्यापार प्रत्याख्यामि प्रतिषेधं आदरेण वच्मि । कयेत्याह यावजीवनं यावज्जीवा तया यावञ्जीवया
॥१९५॥
Jain Education Internet
For Private & Personal use only
allww.jainelibrary.org