________________
आवश्यकनियुक्तिदीपिका ।।
सिद्धनमस्कारः।
॥१९०||
शेषेन्द्रियापेक्षमपि ज्ञेयं । तथाहि कोऽपि नरो भव्याशनपानादीनि भुक्त्वा भव्यनादं सरसगानं श्रुत्वा भव्यरूपपात्राणि नृत्यन्ति दृष्ट्वा भव्यगन्धपुष्पाद्याघ्राय भव्यतुल्यां भव्यस्त्रियं भुक्त्वा सर्वबाधानिवृत्तिजं सुखं क्षणमात्रं वेदयति ॥९७९॥ 'इ' इअ सबकालतित्ता, अउलं निवाणमुवगया सिद्धा। सासयमवाबाहं, चिट्ठति सुही सुहं पत्ता ॥९८०॥ __एवं सर्वकालं तृप्ता अतुलं निर्वाणं कर्मक्षयं उपगताः सिद्धाः शाश्वतं अव्याबाधसुखं परमाहादरूपं प्राप्ताः सुखिन| स्तिष्ठन्ति ॥ ९८० ।। ' सिद्ध सिद्धत्ति अ बुद्धत्ति अ, पारगयत्ति अ परंपरगयत्ति। उम्मुक्ककम्मकवया, अजरा अमरा असंगा य
सिद्धाः कृतकृत्यत्वात् नित्यत्वात् अक्षयत्वेन मङ्गलभूतत्वाच्च, बुद्धा विश्वविश्वावगमात् , पारगता भवाऽब्धितीर्णत्वात् , परम्परागताः सम्यक्त्वज्ञानचरणरूपपरम्परया सिद्धत्वात् । तथा उन्मुक्तकमकवचाः ॥ ९८१ ॥ ' निच्छि' निच्छिन्नसबदुक्खा, जाइजरामरणबंधणविमुक्का।अबाबाहं सुक्खं, अणुहुंती सासयं सिद्धा ॥९८२॥
नितरां छिन्नं सर्व दुःखं यैः, जातिर्जन्म, बन्धनं अष्टप्रकारं कर्म, तैर्विमुक्ताः ॥ ९८२ ॥ 'सिद्धा' इत्यादि ४ गाथाः सिद्धाण नमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुण बोहिलाभाए ॥९८३॥ सिद्धाण नमुक्कारो धन्नाण भवस्कयं कुणंताणं। हिअयं अणुम्मुअं तो विसुत्तिआवारओ होइ ॥९८४॥
| ॥१९॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org