SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter स्पृशत्यनन्तान् सिद्धान् सर्वैरात्मप्रदेशैर्नियमतः सिद्धः । तथा सर्वप्रदेशैः स्पृष्टेभ्यो देशप्रदेशैर्ये स्पृष्टास्तेऽसङ्खयगुणाः स्युः । यथाहि सर्वात्मप्रदेशैरनन्ताः स्पृष्टास्तथैकै क प्रदेशेनाप्यनन्ताः स्पृष्टाः । आत्मा वाऽसङ्खघप्रदेशस्ततः सर्वप्रदेशस्पृष्टेभ्यो | देशप्रदेशस्पृष्टा असल गुणा अनन्ता इत्यर्थः । स्थापना ॥ ९७० ॥ ' अस ' असरीरा जीवघणा, उवउत्ता दंसणे अ नाणे अ । सागारमणागारं, लक्खणमेअं तु सिद्धाणं ॥ ९७९ ॥ अशरीराः, जीवप्रदेशैर्घना निचिता जीवघनाः, उपयुक्ता दर्शने ज्ञाने च, बन्धानुलोम्याद्दर्शनस्य प्रागुपन्यासः । ततश्च साकारानाकारं ज्ञानदर्शनात्मकं सिद्धानां लक्षणं एवं स्यात् । साकारं च तदनाकारं च विशेषसामान्यदर्शनमित्यर्थः । इह नैवं वाच्यं यच्छास्थवत्सिद्धाः सामान्यबोधकाले विशेषं न बुध्यन्ते विशेषकाले तु सामान्यमिति, किन्तु केवलिनां प्रथमसमये विशेषबोधो द्वितीयसमये सामान्यबोधः । तत्र यदा विशेषो बोधस्तदापि सामान्यज्ञानं सहैवास्ति परं तदा विशेषाणां प्राधान्यं विवक्ष्यते सामान्यबोधसमये तु विशेषाणामप्राधान्यं । एवमुपयोगः छद्मस्थैः सकर्म्मत्वान्नानुभूयते ॥ ९७१ || 'केव' केवलनाणुवत्ता, जाणंती सवभावगुणभावे । पासंति सबओ खल, केवलदिट्ठीहिताहिं ॥ ९७२ ॥ जानन्ति सर्वेषां भावानां पदार्थानां गुणान् तथा भावान् पर्यायान्, तत्र सहवर्त्तिनो गुणाः ज्ञानादयः क्रमवर्त्तिनः पर्याया नवपुराणत्वादयः पश्यन्ति सामान्योपयोगेन सर्वतः केवलदृष्टिभिः केवलदर्शनैरनन्ताभिः अनन्तकालत्वात् ।। ९७२ ॥ 'नाणं ' नाणमिदंसणंमि अ इत्तो एगयरयांमि उवउत्ता । सव्वस्स केवलिस्सा, जुगवं दो नत्थी उवओगा ॥ ९७३ ॥ For Private & Personal Use Only सिद्ध लक्षणम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy