SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सिद्धशिला|प्रमाणम् ।। निम्मलदगरयवण्णा, तुसारगोखीरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ य, भणिआ जिणवरोहिं ॥ सिद्धशिला दकरजः श्लक्ष्णाम्बुकणाः, तुषारो हिमं, सहग्वर्णा । उत्तानछत्रसंस्थिता तलेऽतिसंकीर्णा उपर्यतिविस्तीर्णा वृत्ता च ॥ ९५४ ॥ 'एगा' | एगा जोअणकोडी, बायालीसंच सयसहस्साई। तीसं चेवसहस्सा, दो चेव सया अउणवन्ना ॥९५६॥ ___ एषा शीताक्षेत्रपरिधिः, इह परिधिवर्तनोपायः 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' आदौ परिधिक्षेत्रस्य विष्कम्भश्चिन्त्येत ततस्तस्य वर्गः क्रियते । तत्राङ्कस्य स्वाङ्केनैव गुणनं वर्गों यथा दश दशभिरेव गुणिताः शतं जातं । ततो वर्गो दशगुणः कार्यः, ततः करणीं कुर्याद्यथा विषमसमेति पदव्येनान्त्याङ्कादाद्याङ्कं यावद्गण । यद्यच्च तत्रान्त्यं विषमपदं समेति तस्मादयं विधिः-'विषमात्पदतस्त्यक्त्वा वर्ग स्थानच्युतेन मृलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत्पङ्कयाम् । १ । तद्वर्ग संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धं । उत्सार्य ततो विभजेल्लब्धं द्विगुणीकृतं दलयेत् , २।, इह यदन्त्यं विषमपदंतस्माद्वि- | पमात्पदतो वर्ग 'त्यक्त्वा' यावान् वगों लभ्यते तावन्तं वर्ग निःकास्य 'मृलेन' ते मूलवर्गाकेन 'स्थानच्युतेन शेषाङ्काधःस्थापितेन 'द्विगुणेने ति द्विगुणीकृतेन तेन शेषं अकं भजेत् । लब्धं अङ्क अधः प्राद्विगुणीकृताङ्कपतयां स्थापयेत् । ततस्तस्यांकस्स | वर्ग ऊर्ध्वाङ्कात् , 'संशोध्य' तत उत्सार्य पराङ्काधो न्यस्य, तं द्विगुणीकुवति । पाश्चात्यांकमप्युत्सारयेत् । पुनर्द्विगुणीकृताधास्थाकाभ्यां ऊर्ध्वाकं भजेल्लब्धं च पङ्कयां न्यस्य तद्वर्ग संशोध्योत्सार्य पूर्ववद् द्विगुणीकुर्यात् । ततः प्राद्विगुणिताङ्करू_कान्वि For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy