SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका समुद्घातस्वरूपम्॥ ॥१८४॥ | शरीरस्थः स्यात् ८ । समुद्घाते च मनोवाग्योगयोर्न व्यापारः किन्तु केवलकाययोगस्य । तत्राद्यान्त्यसमययोरौदारिककाययोगो दण्डादिक्रियायां तत्प्रयत्नविधानात् । द्वितीयषष्ठसप्तमसमयेषु पुनरौदारिककार्मणमिश्रः, औदारिके तस्माच्च बहिः कार्मणे एवं द्वयोः वीर्यपरिस्पन्दात् , त्रिचतुःपञ्चमेषु तु कार्मेण एव औदारिकाद्धहिरेव बहुतरप्रदेशव्यापारात्तदा चानाहारकः स्यात् । चूर्णी तु समुद्घातयुक्ति:-सर्वजीवप्रदेशान् बुद्ध्या असङ्खथान् भागान् कृत्वाऽसंख्येयभाग मुक्त्वा शेषैर्देहनिगतैरष्टौ सान्ततिकान्योन्याधियोगिरुचकसंस्थानस्थितजीवमध्यप्रदेशान् वज्रवैडूर्यपटलयोयोर्लोकमध्यरुचकाष्टप्रदेशेषु संस्थाप्य वृत्तं ऊर्ध्वाधः समप्रदेशं चतुर्दशरज्वायाम आद्यसमये दण्डं, कृत्वा मुक्ताऽसङ्खथेयभागान् आद्यसमयप्रदेशासङ्ख्यगुणहीनान् बुद्ध्याऽसङ्खयभागीकृतादेकं भागं मुक्त्वा शेषैः प्राक् प्रत्यक् विस्तीर्णमपागुदग हस्वमूर्धाध उच्छ्रितं द्वितीये कपाटं, तृतीये निचितावयवं वृत्तं स्थालतुल्यं प्रतरं । चतुर्थे निःकुटसंस्थितलोकाकाशप्रदेशपूरणं दंडादिबहुप्रदेशैः कुर्यात् । शेषोऽसङ्ख्यभागस्तु देहाकाशप्रदेशमान इति । इह कर्मक्षपणादि चूणिमध्यमवृत्यादिभ्यो ज्ञेयं, तथा 'छम्मासाऊसेसे उप्पन्नं जेसि केवलं नाणं । ते नियमा समुग्धाया सेस समुग्धाय भयणिजा'।१। इति । अथ 'भासा०' इति कोऽर्थः १ स समुद्घातादनु कारणवशात् भाषाग्रहणेनोपलक्षित योगत्रयमपि व्यापारयति । तद्यथाऽनुत्तरसुरैर्मनसा सन्देहं पृष्टो मनोद्रव्याण्यादाय मनोयोगं, आमन्त्रणादौ च वाग्योगं, फलकात्यर्पणादौ औदारिककाययोगं, ततोऽन्तर्मुहतं स्थित्वा आदावेव याऽसौ शरीरप्रदेशसम्बद्धा मनःपर्याप्तिर्यया पूर्व मनोद्रव्याण्यादाय मनः प्रयुक्तवान् तन्मनःपर्याप्तिनामकर्म, तत्संयोगविघटनायाचिन्त्येन शरीरवीर्येण पर्याप्तिमात्रस्य जघन्ययोगिनः संज्ञिनो यावन्ति मनोद्रव्याणि यावांश्च तद्व्यापारस्तस्मादसवय गुणहीनं मनोयोगं प्रतिसमयं रुन्धनसङ्खयेयः समयैः समस्तं मनोयोगं ॥१८४॥ Jain Education Intera For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy