________________
णार्थः । अष्टधा ज्ञानावरणादिभेदेन सितं बद्धं, ततः शेषितं ज्ञानादिभिरल्पं कृतं । ततोऽपि ध्यानानलेन ध्मातं लोहमलव- समुद्घातग्धं इत्येवं सिद्धस्य सिद्धत्वं उपजायते । सिद्धस्येति निश्चयनयमताश्रयात् ॥ ९४७ ।। यदा च शेषितं कर्मायुषा सह विषम-IN
स्वरूपम्॥ स्थितिः स्यात्तदा किं करोतीत्याह 'नाऊ' नाऊण वेअणिजं, अइबहुअं आउअं च थोवागं। गंतूण समुग्घायं, खवंति कम्मं निरवसेसं ॥९४८॥ ___ केवलेन ज्ञात्वा वेदनीयं उपलक्षणत्वान्नामगोत्रे अपि, सम्यगपुनर्भावेन उत्प्राबल्येन कर्मणो हननं समुद्घातः तं, गत्वा | प्राप्य, क्षपयति कर्म, निरविशेषमिति बहोः क्षयात् शेषस्य चान्तर्मुहूर्त्तमात्रावधित्वात् किश्चिच्छेपत्वेनाविवक्षितत्वात् ॥ ९४८॥ अथ समुद्घातस्वरूपमाह 'दंड' दंड कवाडे मंथंतरे अ, साहरणया सरीरत्थे। भासाजोगनिरोहे, सेलेसी सिज्झणा चेव ॥ ९४९ ॥ ___ सर्वोऽपि केवली समुद्घातं कुर्वन्नकुर्वन् वा प्राक आन्तमौहूर्तिकं उदयावलिकायां कम्मशिक्षेपव्यापाररूपं उदीरणाविशेषात्मकं आयोजिकाकरणं आवश्यककरणान्याहू कुर्यात्ततः समुद्घातकर्ता आद्यसमये स्वाङ्गविष्कम्भं ऊर्ध्वाऽधोलोकान्तगामिनं जीवप्रदेशानां दंडं कुर्यात् १। द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा जीवप्रदेशानां लोकान्तं यावत् प्रसारणात्कपाटम् २। तृतीये दक्षिणोत्तरं पूर्वापरं वा प्रसारणान्मन्थानं ३ | चतुर्थेऽन्तरपूर्तिस्तदा च सर्वलोकव्यापी आत्मा स्यात् ४ । ततः क्रमात् 'साहरणय'त्ति कोऽर्थः पञ्चमसमये मन्थान्तराणि संहृत्य कपाटं ६ । सप्तमे कपाटं संहृत्य दण्डं ७ । अष्टमे समये दण्डं संहृत्य
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org