________________
Jain Education Internal
(यद् बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः ) अष्टभिरपि नत्वेकद्व्यादिभिर्दृष्टं तदेव ग्रहणं, श्रुतज्ञानलाभं ब्रुवते, धिया बुद्ध्या राजन्ते इति धीराः ॥ २१ ॥ अथ धीगुणाः 'सुस्स्' -
सुस्सूसइ पडिपुच्छ, सुणेइ गिण्हइय ईहए वावि । तत्तो अपोहए वा, धारेइ करेइ वा सम्मं ॥२२॥
सुश्रूषते विनयेन श्रोतुमिच्छति १ संशये प्रतिपृच्छति २ पुनर्गुरूक्तं शृणोति ३ श्रुत्वा गृह्णाति ४ तत इत्थं नवेतीहते ५ वा समुच्चयेऽपिः स्वबुद्ध्यापि चिन्तयति, ततोऽपोहते निश्चिनोति वा शब्दश्वार्थे ६ गुरूक्तं नित्यं धारयति ७ करोति तदुक्तानुष्ठानं ८ । क्रियाऽपि श्रुतावरणक्षयोपशम हेतुगुरुचित्तावर्जनादिहेतुत्वेन श्रुताप्तिकारणाद्वीगुणेषूक्ता ॥ २२ ॥ अथ श्रवणविधिः ‘मूअं ’—
मूअं हुंकारं वा बाढकारपडिपुच्छवीमंसा । तत्तो पसंगपारायणं च, परिणिट्ठ सत्तमए ॥ २३ ॥
प्रथमे श्रवणे संयतगात्रो मूकं तूष्णीं श्रुणुयात् १ द्वितीये हुंकारं च दद्यात् वदत इत्यर्थः २ तृतीये बाढकारं तथेति वदेत् ३ चतुर्थे प्रतिपृच्छां कुर्यात् कथमेतदिति ४ पंचमे मीमांसां प्रमाणैर्विचारं करोति ५ षष्ठे ततः प्रसंगायातसर्वार्थपारगमनं ६ सप्तमे श्रवणे परिनिष्ठः पूर्णो गुरुवद् भाषते ७ || २३ || व्याख्याविधिमाह 'सुत्त'
सुचत्थो खलु पढमो, बीओ निज्सुत्ति मीसओ भणिओ । तइओ य निरवसेसो, एस विही भणिअ अणुओगे ॥ २४ ॥
For Private & Personal Use Only
www.jainelibrary.org