________________
वैनयिकी
दृष्टान्ताः ॥
कूपखातज्ञो वेत्ति इयत्यां भुव्यत्राम्भोऽस्ति ५। अश्वे-द्वारवत्या लोकैः स्थूला अश्वा आचाः कृष्णेन लक्षणवान् बह्वश्वर्द्धिकृत्कशोऽप्यात्तः६। यूगर्दभे-नां सैन्येष्टव्यां तृषार्त वृद्धेन यत्र गर्दभा उत्सिचन्त्यत्र सिराम्भोऽस्तीत्युक्ते तथाकृतेऽम्बु लब्धं ७। लक्षणे-कोऽप्यश्वद्वयं मे देयमित्यश्वसारां कुर्वन्नश्वपतिसुतासङ्केताद्योऽश्व उच्चस्थानादश्मभृतचर्मपात्रे क्षिप्त पटहे वादिते च न त्रस्येत्सोऽर्ह इति ज्ञात्वाऽश्वद्वयं एवं परीक्षाशुद्धं याचनश्वेशेनोदयकरौ तावश्वौ अदातुकामेन सुतां दातुं प्रियानिच्छन्त्युक्ताश्रीपुरे सूत्रभृता भागिनेयःसल्लक्षणत्वात् पुत्रीं दत्वा गृहे स्थापितोऽव्यवसायी पल्ल्यानुन्नोऽरण्ये भ्रामं भ्रामं षण्मासैराप्तकृष्णचित्रकमाणकं घटित्वा तेन मितमक्षयं स्यादिति लक्षस्वर्णेन पल्या विक्रीय्य स स्वकुलं सधनं चक्रे, एवं अश्वरक्षायै एषोऽपि स्थाप्य इति, ततः स पुत्रीं दत्वा गृहेऽस्थापीति गृहेशधीः ८ । ग्रन्थौ-पाटलिपुरे मुरंडस्य राज्ञः कश्चिद् मूढसूत्रं समायष्टिर्जतुलिप्तो नष्टास्यः समुद्गकश्चेति ग्रन्थिका प्रेषि, कोऽपि न वेत्ति । पादलिप्ताचार्येण सूत्रमुष्णाम्भसि क्षिप्त्वा मदने गलिते प्रान्तः कृष्टः, यष्टौ जले मुक्तायां मूलं गुरुत्वान्मग्नं इति मूलं ज्ञातं, समुद्गकश्चोष्णाम्भसि घोलितो जतुगलनादास्यमुद्घाटितं, सूरिणा तुम्बं रत्नैर्भूत्वा नष्टसीविन्या सीवित्वा तेषां प्रेषि, । एनमुद्घाट्य रत्नानि लान्तु । तैरेरितं ९ । अगदे-परचक्रागमे राजादेशाजलविनाशाय विषपुञ्जाः समेताः, वैद्येन तु यवमाने आनीते राजा रुष्टः, वैद्योऽ| वक् सहस्रघात्येतत् । ततः परीक्षायै तत् क्षीणेभपुच्छवालाधो दत्तं । तत् सर्व देहं व्यामोत्तदेवाऽगदलवाद्वालितं च राजा तुष्टः १० । गणिका-कोशा सर्षपभृतस्थाले सूचीप्रोतपुष्पोवं नृत्ता ११ । रथिको गवाक्षस्थः पुंखे पुंखे शरं सन्धायाम्रलुम्बीललो १२ ॥ ९३८ ॥ 'सीया साडी'त्यादि पूर्वार्द्धकथा-कश्चिन्नपपुत्राध्यापको लब्धबहुस्वः स्नानानार्थं वस्त्रं याचन्नृपपुत्रैर्नृपद्रो
।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Inter