SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नमोऽर्हत्वे हित्वन्तरम्।। आवश्यकनियुक्तिदीपिका ॥ ॥१७४॥ सरागधर्मवतां साधूनां नीरागत्वाभावात् २। द्वेषोऽपि द्विधा-प्रशस्तोऽधर्मादौ अप्रशस्तो ज्ञानादौ। आद्येऽयं दृष्टान्त:'गंगाए नाविओ नंदो, सहाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपवए । ३ । वाणारसीए बडुओ, राया तत्थेव आगओ । एएसिं घायओ जो उ, सो इत्येव समागओ।४।' काश्यां धर्मरुचिसाधुना गङ्गायामिति गङ्गोत्तारे नन्दो नाविको द्रव्यं विनाऽमुश्चन् क्षुत्तृष्णोष्णवालुकातप्तेन दृष्टिविषलब्ध्या दग्धः, स सभायामिति जनोपदेशशालायां गृहकोकिलो घिरोलको मृतगंगा शुष्कगंगा तत्तीरे हंसोऽञ्जनपर्वते सिंहो वाराणस्यां बटुको जातः । एषु भवेषु धर्मरुचिना उपसर्ग कुर्वन् दग्धो मृत्वाऽत्रैवेति पुनर्वाराणस्यां पुरे आगतो राजा जातः साधुदर्शनाजाति स्मृत्वा 'गंगाए नाविओ नन्दो' इत्यादि पदरूपां समश्यां पुरयितुरर्द्धराज्यं ददे इत्याख्यात् । धर्मरुचिना तु 'एएसिं एग सेसाणमिति पदाभ्यां पूरिता । एतेषां नन्दादीनां 'एग सेसाणं' एकं राजानं मुक्त्वा शेषाणां घातकोऽहमत्रागतोऽस्मि । ततो राजा श्राद्धोऽभूत साधुश्च प्रतिक्रम्य सिद्धः । कषायाः क्रोधादयोऽत्र भाष्यं ' नाम ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसाएया (सायाणं) नएहिं छहिं मग्गणा तेसिं । ५।' द्रव्यकषायः कषायकणिवः । उत्पत्तिकषायः कषायोत्पत्तिहेतुबाह्यद्रव्यं कीलकादि । यथा* किं एत्तो कट्ठयरं, जं मूढो खाणुगम्मि अप्फिडिओ । खाणुस्स तस्स रूसइ, ण अप्पणो दुप्पओगस्स । ६।' किं इतोऽस्मात्कष्टतरं विरूपं यन्मूढः स्थाणौ कीलके आस्फालितस्य स्थाणौ रुष्यति नात्मनो दुःप्रयुक्तस्यानुपयुक्तव्यापारस्य, प्रत्ययकषायः आश्रवाऽविरत्यादिकः कषायबन्धहेतुः, आदेशकषायः कृत्रिमभ्रूत्पादादिः कषायं विनापि तथैव दर्शनात् , रसकसायो हरीतक्यादेः, भावकषायः कषायमोहनीयकर्मोदयस्तजनितश्च कषायपरिणामः । नयैः सङ्ग्रहादिभिः षड्मि ॥१७४॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy