________________
अक्षरश्रुतं १ संज्ञिश्रुतं २ सम्यक्श्रुतं ३ सादिश्रुतं ४ सपर्यवसितश्रुतं ५ गमिकश्रुतं ६ अङ्गप्रविष्टश्रुतं ७ श्रुतशब्द: सर्वत्र योज्या, अक्षरं त्रिधा संज्ञाक्षरमक्षराकारं १ व्यंजनाक्षरं उच्यमाना घटादिवर्णाः २ लब्ध्यक्षरं अक्षरोपलम्भः इन्द्रियलिङ्गागमसादृश्याधुत्थः, यथा ध्वनौ श्रुते शङ्खोऽयं, धूमे दृष्टेऽग्निरिहास्ति, कन्दे दृष्टे अनंतकायोऽयं, यथा गौस्तथा गवय इत्यादिवर्णानां लम्भः, तदावरणक्षपोपशमो वा लब्ध्यक्षरं ३ तत्राद्ये द्रव्याक्षरे लब्ध्यक्षरं तु भावाक्षरं 'सत्तवी'त्यादि सप्ताप्यक्षरश्रुतादिभेदाः सप्रतिपक्षाः स्युः, यथा अनक्षरश्रुतं १ असंजिद्युत २ इत्यादि ॥ १९ ॥ तत्रानक्षरश्रुतं यथा 'ऊस'ऊससियं नीससिअं, निच्छुढं खासिअंच छीयं च । णीसिंघियमणुसारं, अणक्खरं छेलियाईअं॥
'निच्छूट' निष्ठयूतं, चशब्दौ समुच्चये, निःसिंघितं नासिकाया अनुस्वारं मीलितास्येनोच्चार्यमाणं सेष्ठितं चौरादिसंज्ञा, आदि| तश्चप्पुटिकाचक्रचीत्कारादि, अनक्षरश्रुतादीनां श्रुतशब्दः श्रुयते इति व्युत्पत्तितो ज्ञेयः। अथ संज्ञिश्रुतं, संज्ञा त्रिधा दीर्घकालिकोप- I देशहेतुवादोपदेशदृष्टिवादोपदेशात् , दीर्घः कालोऽस्येति दीर्घकालिकः स चासावुपदेशश्च दीर्घकालिकोपदेशः। उपदेशो विवक्षा च तत्रेहादिवान् पूर्वापरकालं विमृश्य कार्यकर्त्ता च, पञ्चेन्द्रियो मनःपर्याप्तिपर्याप्तः संज्ञी ज्ञेयः१। हेतुर्देहपालनार्थ इष्टादानानिष्टहाने तयोर्विवदनं वादः तदुपदेशात् संज्ञी द्वीन्द्रियादि प्रायो वर्तमानार्थचिन्तकः, अल्पमनोलब्धित्वात् २ । दृष्टीनां नयात्मकानां मिथः सापेक्ष वदनं दृष्टिवादः स्याद्वादः तदुपदेशात् संज्ञी सम्यक्त्वी तस्य श्रुतं संज्ञिश्रुतं ३ । इह दीर्घकालिकीसंज्ञया यः संज्ञी तस्य श्रुतेनाधिकारः, विपक्षेऽसंजीश्रुतं द्वीन्द्रियादि शब्दाः। 'सम्म' सम्यक्श्रुतं जिनोक्तं सम्यक्दृष्ट्या
Jain Education Intern
For Private & Personal Use Only
Twww.jainelibrary.org