________________
बावश्यकनियुक्ति दीपिका॥
॥१६९॥
अथ सूत्रसूत्रस्पर्शिनियुक्त्योरवसरः, तत्र प्रस्तुतं सामायिकसूत्रं, तच्च नमस्कारपूर्वमेवेत्यादौ तनियुक्तिमाह ' उप्प' नमस्कार उप्पत्ती निक्खेवो, पैयं पयत्यो परूवाँ वत्थु । अक्खेव पंसिद्धि केमो, पओयण फलं नमोकारो॥८८१॥ नियुक्तिः ॥ __ उत्पत्तिः १ निक्षेपः २ पदं ३ पदार्थः ४ प्ररूपणा ५ वस्तु ६ आक्षेपश्चालना ७ प्रसिद्धिः स्थापना ८ क्रमा ९ प्रयोजन १० फलं ११ एभिर्नमस्कारश्चिन्त्यः ॥ ८८१ ॥ क्रमेणाह । ' उप्प' उप्पन्नाऽणुप्पन्नो,इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो। सेसाणं उत्पन्नो, जइ कत्तो! तिविहसामित्ता॥८८२ ____ स्याद्वादिना नमस्कार उत्पन्नानुत्पन्नो नित्यानित्य इत्यर्थः । कथमित्याह-अत्र नयाः प्रवर्त्तन्ते, तत्र नैगमः सर्वसङ्ग्राही देशसशाही च, तत्रादिनैगमस्य सामान्यग्राहित्वात् सङ्ग्रहस्य च सामान्यमात्राश्रयत्वात् ऐक्यमेव, सामान्यं चोत्पादव्ययरहितं । नमस्कारो वस्तुत्वेन सामान्यान्तर्गतोऽतो नैगमस्यानुत्पन्नः । शेषाणां सङ्ग्रहादिनयानां विशेषग्राहित्वात्तस्य चोत्पादव्ययवत्वादुत्पन्नः, यद्युत्पन्नः कुत इत्याह त्रिविधस्वामित्वात्रिविधकारणादित्यर्थः ॥ ८८२ ॥ तच्चाह ' समु'
समुट्ठाणवायोलद्धिओ पढमे नयत्तिए तिविहं। उज्जुसुय पढमवज्जं, सेसनया लद्धिमिच्छन्ति ॥८८३॥ ___ सम्यगुत्तिष्ठत्यस्मादिति समुत्थानं निमित्तं तच्चात्र देहः १ वाचना गुरुभ्यः श्रवणं २ लब्धिस्तदावरणक्षयोपशमः ३ एतत्रिधा कारणं नमस्कारस्य, प्रथमे शुद्धनगमसहव्यवहाराख्यनयत्रये स्यात् । ऋजुत्रः प्रथमवर्ज समत्थानवर्ज इच्छति, तद्भावेऽपि वाचनालब्धिशून्यानां नमस्कारस्याभावात् । एवं शेषनया लम्धिमिच्छन्ति, तदभावेऽभव्यादीनां वाचनाया |॥१६९॥
P
For Private & Personal Use Only
Jain Education Internet
ww.jainelibrary.org