________________
आवश्यक
नियुक्ति
दीपिका॥ ॥१६
अनवद्यपरिज्ञाप्रत्याख्यानेदृष्टान्ताः॥
याऽभ्यर्थयन् , राजोचे स्तोकं कुरुत । ततस्तैः सर्वैः सहस्रपञ्चकं व्यसहस्रं च, एवं संक्षिपद्भिर्यावदेक लोके चत्वारः शतसहस्राः ग्रन्थाः स्थापिताः। यथा 'जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया। बृहस्पतिरविश्वासः पश्चालः स्त्रीषु मार्दवम्'।१। आत्रेय ऋषिरित्याह जीर्णेऽन्ने सति भोजनं कार्य । कपिलः प्राणिनां दयेति । बृहस्पतिः कस्यापि विश्वासो न कार्यः इति । पञ्चालः स्त्रीषु मार्दवं कुर्यादित्याह । एवं सामायिकेऽपि समितिगुप्तत्वात् चतुर्दशपूर्वार्थसङ्ग्रहः ।। ८७७ ॥ गतः संक्षेपः । अथानवद्यं ' सोऊ.' सोऊण अणाउटिं,अणभीओवजिऊणअणगंतु। अणवजयं उवगओ, धम्मरुई णाम अणगारो॥८७८॥ ___धर्मरुचिर्वसन्तपुरे जितशत्रुधारिणीसुतो राज्यमनिच्छन् पित्रा सह तपस्वी जातः कल्येऽमावस्येति घोषात् फलादि सङ्ग्रह्यास्थात् , द्वितीयेऽह्नि साधुन् यातो वीक्ष्योचे किं वोऽनाकुट्टिर्नास्ति इति वने भ्रमत ? अनाकुट्टिरच्छेदनमहिंसेत्यर्थः, साधुभिरूचे आजन्मास्माकमनाकुट्टिः स च तं श्रुत्वा जातजातिस्मृतिः, अणति भ्राम्यति संसारमनेनेत्यणं पापं तस्माद्भीतोऽणभीतोऽणकं
पापं परिवयं अनवद्यतां दीक्षामुपगतः प्रत्येकबुद्धोऽभूत् ।। ८७८ । गतमनवद्यं ६, अथ परिज्ञा 'परि' M परिजाणिऊण जीवे, अजीवे जाणणापरिणाए। सावजजोगकरणं, परिजाणइ सो इलापुत्तो॥८७९॥
'जाणणापरिनाए 'ज्ञपरिज्ञया जीवाजीवान परिज्ञाय ' सावज०' प्रत्याख्यानपरिज्ञया परिजानाति प्रत्याख्यातीत्यर्थः । तत्कथा च प्रागुक्ता ।। ८७९ ।। गता परिज्ञा ७ । अथ प्रत्याख्यानं 'पञ्च' पञ्चक्खे इव दद्दणं, जीवाजीवे य पुण्णपावं च । पञ्चक्खाया जोगा, सावजा तेतलिसुएणं ॥८८०॥
॥१६८॥
Jain Education inte
For Private & Personal Use Only
| www.jainelibrary.org